________________
१६४
कर्मकाण्डक्रमावली एकैकाहुतिदानेन संतर्य इष्टदेवताः समुद्रोष्टहदो चैवमानयेन्मङ्गलादिभिः ॥१५७७॥ गुरुदेवाग्रतो गच्छेन्मतिः सुहृदि स्थितैः ।। बन्धुभिः सह धर्माय देवयानस्य पृष्ठतः ॥१५७८।। प्रासादा दिपरिम्रम्य भद्राख्ये द्वारसंमुखम् । लिङ्गं संस्नाप्य दत्ताधू प्रासादं च प्रवेशयेत् ।।१५७६।। द्वारेण द्वारबन्धेन द्वारदेशेन तद्विना ।... द्वारबन्धशिलाशून्ये तानाथ उच्यते ॥१५८०॥ वर्जघेद्वारसंस्पर्शद्वारेण च महेश्वरम् । देवगृहसमारम्भं कोणेनापि प्रवेशयेत् ॥१५८१॥ अयमेव विधि यो व्यक्तलिङ्गेऽपि सर्वतः । गृहोपवेशनं द्वारलोकरपि समीक्षितम् " ॥१५८२।। अथद्वारप्रवेशेन विदुर्गोऽत्र क्षयं गतः । तत्कर्तुश्च विना शान्तिमतःशान्ति समाचरेत् ॥१५८३।। जीर्णादिदोषदुष्टः स्यादपद्वारे विनिर्गतम् । अथ पोठे च संस्थाप्य लिङ्गद्वारस्य संमुखम् ॥१५८४॥ तूर्यमङ्गलनिर्धो पे क्षितसमन्वितम् । समुत्तिष्ठ हृदेत्युक्त्वा महापाशुपतं पठन् ॥१५८५।। अपनीय घटं श्वभ्रादेशिको मूर्तिपैः सह ।। यन्त्रस्थं कारयित्वा च विलिप्तं कुङ्कुमादिभिः ॥१५८६॥ शक्तिराक्तिमतो रैक्यंध्यात्वालम्बनलक्षितम् । . लयान्तं मन्त्रमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत् ॥१५८७॥