________________
सोमशम्भुरचिता । • नमो व्यापिनि स्थिरे अचले ध्रुवे लं ही स्वाहा । त्वया शिवाज्ञया शक्ने स्थातव्यमिह सन्ततम् ॥१५६६॥ इत्युक्त्वा च समभ्ययं निरुद्ध्याद्रोधमुद्रया। वज्रादीनि च रत्नानि तथौशीरादिकौषधीः ॥१५६७॥ लोहान्हेमादिकान्धातून्हरितालादिकं तथा ।.. धान्यप्रभृतिसंस्थांश्च पूर्वमुक्ताननुक्रमात् ॥१५६८॥ प्रभारोग्यत्वदेहत्वतृप्तिशक्तिमनामयम् ।। भावयन्नेकचित्तस्तु लोकपालेशशम्बरैः . १५६६।। पूर्वा दिवसुगर्तेषु .न्यसेदेकैकशः ‘क्रमात् । हेमजं ताम्रजं कूर्म वृष वा द्वारसंमुखम् . ॥१५७०।। सरिनादैः समायुक्त पदे नदमृदाथ वा । प्रक्षिपेन्मध्यगर्तायां यद्वा मेंरु सुवर्णजम् ॥१५७१॥ मधूकाक्षतसंयुक्तमञ्जनेन समन्वितम् । पृथिवीं रांजती यद्वा यद्वा हेमसमुद्भवाम् ॥१५७२।। सर्वबीजसमायुक्तां सुवर्णान्यां विनिक्षिपेत् सुवर्णकृसरायुक्तं । पद्मं वानन्ततो न्यसेत् ॥१५७३।। देवदेवस्य शक्त्यादिशक्तिपर्यन्तमासनम् । प्रकल्प्य पायसेनाथ लिप्त्वों गुग्गुलुनाथवा ॥१५७४।। श्वभ्रमाच्छाद्य वस्त्रेण तेनुत्रेणास्त्ररक्षितम् । दिपतिभ्यो बलिं दत्त्वा समाचान्तस्तु देशिकः ॥१५७५॥ शिखया · वा शिखास्त्रमङ्गदोषनिवृत्तये । शस्त्रेण च.......... मस्य जुहुयात्पूर्णथा सह ॥१५७६॥