________________
१६२ कर्मकाण्डकमावली
एतत्समर्थितं कर्म त्वच्छक्त्यैव मया प्रभो । नमोभगवते रुद्राय रौद्र रौद्र नमोऽस्तु ते ॥१५५६॥ विधिपूर्वमपूर्व वा स्वशक्त्यां शर्व गृह्यताम् । डों श्री शंकरि पूरयः स्वाहा, इति पिण्डिकायाम् । इति लिङ्गे न्यसेज्ज्ञानी क्रियाख्यां पीठविग्रहे ॥१५५७॥ आधाररूपिणीं शक्तिं न्यसेब्रह्मशिलोपरि । । निरुद्धां सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥१५५८।। एकरात्रमथो वापि यद्वा सद्योधिवासनम् । विनाधिवासनं यागः कृतोऽपि न फलप्रदः ॥१५५६॥ स्वमन्त्रैः प्रत्यहं देवमाहुतीनों शतं शतम् । शिवकुम्भादि पूजां च दिग्बलिं च निवेदयेत् ॥१५६०॥ श्रीमत्सोमशिवेनायमधिवासविधिः कृतः । प्रातर्मित्यविधिः कृत्वा द्वारपालप्रपूजनम् .:, ॥१:५६१॥ प्रविश्य वाग्विधानेन देहशुद्ध्यादिमाचरेत् । दिक्पतींश्च समभ्यर्च्य शिवकुम्भं च वर्धनीम् ॥१५६२॥ अष्टपुष्पिकयासाधे....................... शिवाज्ञातस्ततो गच्छन्त्रासादं शस्त्रमुच्चरन् ॥१५६३॥ उद्गतान्प्रक्षिपेडिनान् हुंफडन्तशरोणुना । न मध्ये स्थापयेल्लिङ्गं वेददोषविशङ्कया, ॥१५६४॥ तस्मान्मध्यं परित्यज्य यवार्धन यवेन वा । किंचिदीशानमाश्रित्य शिलामध्ये निवेशयेत् ॥१५६५॥ मूलेन तास्वनन्ताख्या सर्वाधोधा/रूपिणीम् ।