________________
सोमशम्भुरचिता।
१५७ नीरक्षोरकुशाग्रादिद्रव्यैरर्चादिसूचकैः ॥१५०६॥ जयस्तुत्यादिभिस्तुष्टमर्पयेत्पुरुषाणुना ।। समाचम्य हृदा देवं बयादुत्थीयतां विभो ॥१५०७॥ देवं रथे समारोप्य मण्डपेश्वर एक्वा । आचार्यः प्रोक्षिते देशे धर्मकारी रथाग्रतः ॥१५०८॥ वजन् शिल्प्यादिभिः सार्धं रथमार्गानुसारिभिः । हिरण्यकांस्यवासासि सप्तबीहिकपैतृकान् ॥१५०६॥ कुसुमानि सुग़न्धीनि गीतवाद्यादिमङ्गलैः । क्षिपन्वित्तानुसारेण परिभ्राम्यानयेत्ततः ॥१५१०॥ पश्चिमं मण्डपद्वारं तत्र भद्रासने स्थितम् । हृदा संपूज्य देवेशं कृते स्वस्त्ययने सति ॥१५११॥ प्रविश्य वेदिकामध्ये खटवायों पडकेऽथवा । विन्यस्य तूलिके तत्र सोपधाने स्रवेण च ॥१५१२॥ शक्त्यादिशक्तिपर्यन्ते विन्यसेदासने शुभे । प्रासादे पश्चिमास्ये च मध्यात्पूर्वाश्रिता दिशम् ॥१५१३।। पश्चिमे पिण्डिकां तस्य न्यसेद्ब्रह्मशिला ततः। पूर्वास्ये च भवेत्तस्मिन्सर्वमेतद्विपर्ययात् ॥१५१४॥ अस्य मन्त्रशतालब्धं निद्राकुम्भं शिवासनम् । प्रकल्प्य शिवकोणे च दत्त्वाघ हृदयेन च ॥१५१५॥ उत्थाप्योक्तासने लिङ्गे शिरसा पूर्वमस्तकम् । समारोप्य न्यसेत्तसिन्दृष्टे ब्रह्मणि चन्दनम् ॥१५१६॥ दद्याद्रूपं च संपूज्य तथा वासांसि वर्मणा ।