________________
१५६
कर्मकाण्डक्रमावली लक्षणोद्धाररेखा च घृतेन मधुना तथा ॥१४६५॥ मृत्युञ्जयेन संपज्य शिल्पिदोषनिवृत्तये । अर्चयेच्च ततो लिङ्ग नापयित्वा मृदादिभिः ॥१४६६॥ मुद्रिकापात्रशय्याभिर्वासोभिश्च शलाकया । शिल्पिनस्तोषयित्वा तु दत्त्वा गा गुरवे शुभाम् ॥१४६७॥ समभ्यर्च्य ततो लिङ्गं धूपदोपाक्षतादिभिः । गायन्त्यो मङ्गलं नार्यों जीवत्पुत्राः समकाः ॥१४६८।। सव्येन चापसव्येन सूत्रेण च कुशेन वा । स्पृष्ट्वा च रोचनां दत्त्वा कुर्युनिर्भर्त्सनादिकम् ॥१४६६।। गुडलवणधान्याकदानेन विसृजेत्ततः । गुरुस्तु मूर्तिपैः सार्धं हृदो वा प्रणये(वे)न वा ॥१५००।। मृत्स्नागोमयगोमूत्रैर्भसभिः सलिलान्तरम् । नापयेत्पञ्चगव्येन पञ्चामृतपुरःसरम् ॥१५०१॥ विरूक्षणैः कषायैश्च सौषधिजलेन च । शुभपुष्पफलैः स्वर्णरत्नशृङ्गोदकेन च ॥१५०२॥ तथा धारासहस्त्रेण दिव्यौषधिजलेन च । तोदकेन साङ्गेन चन्दनेन च वारिणा ॥१५०३॥ क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च। विरूक्षणं तथा कृत्वा सुगन्धैश्चन्दनादिभिः ॥१५०४।। संपूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः । बहुरूपेण नीराज्य रक्षाविलकपूर्वकम् ॥१५०५॥ गीतवाद्यप्रभृतिभिर्ब्रह्मघोषादिमङ्गलैः ।