________________
सोमशम्भुरचिता।
१५३ तन्मध्येऽष्टदलं पद्मं तस्यांशे कर्णिकादिमे । द्वितीये केसराणि स्युस्तृतीये दलसन्धयः ॥१४६३॥ चतुर्थे तु दलाग्राणि गात्राणि दलसन्धयः । चतुरगुलकाः कार्या यथाशोभं यथाक्रमम् ॥१४६४॥ दलायादङगुलं त्यक्त्वा प्रतिवारणमण्डलम् ।। ममन्तादङगुलार्धति विधातव्यं विचक्षणः ॥१४६शा आसने देवदेवस्य वीथ्यादिसहिते क्वचित् । द्वारमाना भवेच्छोभा तदर्धन कपोलकौ ॥१४६६।। श्वेतं रक्तं रजः कृष्णं क्षिपेत्पीतं विधानतः । केसराणि दलाग्राणि गात्रकाणि दलानि च ॥१४६७॥ कुर्वन्ति व्यङगुलान्यन्ये कर्णिकांशषडङ्गुलम् । तत्र संपूज्य देवेशं वज्राद्यैः कुम्भसंनिधौ ॥१४६८॥ कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्तिधारिणः । गुरोरादेशतः कुयुनिजकुम्भस्य संस्कृतीः ॥१४६६॥ जपेयुर्जापिनः साङ्ख्यमस्त्रमन्येऽपि संस्कृतम् । पठेयुाह्मणाः शान्ति स्वशाखावेदपारगाः ॥१४७०॥ श्रीसूक्तं पावमानीं च नासदाख्यं सवाजिनम् । बामदेवश्च ऋग्वेदी पैतृकं च वृषाकपिम् ॥१४७१॥ संयतः सर्वदिग्भागे सर्वमेतत्समुच्चरेत् । देवव्रतं च भारुण्डं ज्येष्ठसाम रथन्तरम् ॥१४७२।। पुरुषं गतिमेतानि सामवेदी तु दक्षिणे ।।
१ 'नीय क.।