________________
१४७
सोमशम्भुरचिता । खातं वेदाङ्गुलैर्वृत्तं द्वियवं व्यगुलं खनेत् ॥१४०१॥ मुखाग्रकण्ठयोरस्या वेदीव्यंशेन विस्तृतिः ।। कनिष्ठाङ्गुलिविस्तीर्णा घृतजिर्गमपद्धतिः ॥१४०२॥ मेखला द्वयङगुला वृत्ता वायामो जिनाइगुलः । द्वाविंशत्यङगुलो दण्डो वृत्तमस्य कृताङ्गुलम् ॥१४०३॥ कार्षिको द्वयङ्गुलः खातः पङ्गे मृगपदाकृतिः। मूले चाग्रे च दण्डस्य गण्डीकङ्कणवद्भवेत् ॥१४०४॥ श्रीपर्णी शिशिपादारुबीजकाम्रविकङ्कताः । स्रचि वृक्षाः प्रशस्यन्ते किंशुकाद्याश्च याज्ञियाः ॥१४०५।। सूर्यादिग्रहशान्त्यर्थ समिधोऽर्कपलाशजाः ।। खदिराश्वत्थपामार्गपिपलोदुम्बरोद्भवाः ॥१४०६॥ शमीर्वाङकुशोद्भता अष्टादशतोन्मिताः? । आहरेत यथासंख्यं तदभावे यवास्तिलान् ॥१४०७॥ एतानि विष्ठरादीनि प्रतिकुण्डं निवेशयेत् । गृहोपकरणं यच्च स्थॉली .... पिधानकम् ॥१४०८॥ मुसलोलूखले खड्गं क्षुरिकाच्छत्रचामरे । शिरोपेत.............. यन्त्रिकापोदुकायुगम् ॥१४०६।। दर्पणं पूगपात्रं च सिन्दूराञ्जन............... । ............ योगपडं पहुं च विनिवेशयेत् ॥१४१०॥ स्थानेऽधिवासे पूजायां प्रतिष्ठायां च वाससाम् । दद्यादयुग्मानि देवाय शूलवेदीवृषाय च ॥१४११।।