________________
कर्मकाण्डक्रमावली मुद्रामुकुटवासादिहारकुण्डलकङ्कणम् । कुर्यादाचारपूजार्थं वित्तशाठयविवर्जितः ॥१४१२॥ उत्पादपादहीनांशमूर्तिभृदस्त्रजापिनाम् ।। पूजा स्याज्जापिभिस्तुल्या विप्रदैवज्ञशिल्पिनाम् ॥१४१३॥ वजार्ककान्तनीलातिनीलमुक्ताफलानि च । पुष्पपद्मादिरागौ च वैदूर्य रत्नमुत्तमम् ॥१४१४।। उशीरमाधवाक्रान्तारक्तचन्दनकागुरुम् । श्रीखण्डं शारिवां कुष्टं शंखिनीत्योषधीगणः ॥१४१५॥ हेमतोम्रमयो वङ्गं तारसारं सकांस्यकम् । पन्नगं चेति लोहानि हरितालं मनःशिलाम् ॥१४१६॥ तोरिकं हंसमोक्षीकं पारतं वह्निगरिकम् । गन्धकोऽभ्रकमित्यष्टौ धातवो ब्रोहयस्तथा ॥१४१७॥ गोधूमान्सतिलान्माषान्मुद्रानप्याहरेद्यवान् । नोवारं श्यामकानेवं ब्रीहयोऽष्टौ प्रकीर्तिताः ॥१४१८॥ एतत्पञ्चाष्टके भावे पञ्चद्रव्योन्युपाहरेत् । फेरुकं सहदेवा च स्वर्ण तालं यवान्क्रमात् ॥१४१६॥ हेरुकं सहदेवों च स्वर्ण तालं यवान्क्रमात् (१)। सर्वेषां तु यदाभावः पारतं हेम वा तथा। ॥१४२०॥ कूर्मभूवृषपमानामेकं होमादिनिर्मितम् । हास्तिके मासिकं कुर्याद्वद्ध्यैकोत्तरया ततः ॥१४२१॥ १ 'रङ' क. पाठः।
-
-