________________
१४२
कर्मकाण्डक्रमावली बहिरेकाङ्गुलः कण्ठे द्वयगुलः कचिदागमे । तद्वहिर्मेखलास्तिस्रो वेदवह्नियमामुलै : ॥१३५०॥ षड्बाणाब्धित्रिपक्षैर्वा क्रमशः पञ्च मेखलाः । अगुलैः षभिरेकैर्वा कुण्डाकारा इमे मताः ॥१३५१॥ तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः उच्छायेणाङ्गुलं तस्या विस्तारेणाङगुलाष्टकम् ॥१३५२॥ दैर्ध्य कुण्डार्धमानेन कुण्डे कण्ठसमोदराः। पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ॥१३५३॥ . पूर्वानना तु शेषाणामैशानेऽन्यतरा द्वयोः । कुण्डानां पञ्चविंशो यो भागः सोऽङ्गुलसंज्ञकः ॥१३५४॥ विभज्यानेन कर्तव्या मेखलाकण्ठनाभयः । प्लक्षोडम्बरकाश्वत्थवटजास्तोरणाः क्रमात् ॥१३५॥ पूर्वादितो विधातव्या यद्वाप्यन्तविपर्ययात् । शान्तिभूतिबलारोग्यनोमान्येषां यथाक्रमम् ॥१३५६॥ अलोभादेकमेवैषां सर्वासां विनिवेशयेत् । पञ्चपटसप्तहस्तानि तोरणानि कनीयसाम् ॥१३५७॥ त्रीणि मध्यमलिङ्गानि वृद्ध्याष्टाङ्गुलया क्रमात् । चतुरगुलया वृद्ध्वा तोरणानि महीयसाम् ॥१३५८॥ एवं नवकरे लिङ्ग तत्सार्धाष्टकरं भवेत् । खातो हस्तप्रमाणः स्यात्तोरणानां कनीयसाम् ॥१३५॥ १ 'यश्चतुर्दिशो भागः' ख. २ 'तेन ख. ।