SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । मध्यमानां क्रमेणायं चतुरङगुलवृद्धितः । त्रयाणामुत्तमानां तु खातः सोर्घकरो मतः ॥१३६०॥ क्रमाद्व्यङ्गुलया वृद्ध्या महादूरान्तरे पुनः । सर्वेषां तु समांशेन भागः कार्य इतीरितम् विस्तारं तूच्छ्रयस्यार्धं तुल्यो वा धारिकाः समाः । बाहुल्यं पञ्चहस्तस्य तोरणस्य षडङ्गुलम् शेषाणां वर्धयेदत्र क्रमादङ्गुलमङ्गुलम् । प्रथमेऽष्टाङ्गुलं शल्यमन्येषामङ्गुलोत्तरम विद्यादानुपूर्वेण नासापिण्डं च तत्समम् । उच्छ्रायपश्चमांशेन शूलपक्षांशनिर्गमः निजोच्छ्रायत्रिभागेन शूलपक्षप्रविस्तृतिः ૧ १४३ ॥ १३६१ ॥ ॥१३६२॥ ॥१३६३॥ ।। १३६४।। । प्रवेशं द्व्यङ्गुलं चास्य क्रमादेकाङ्गुलोत्तरम् ॥ १३६५॥ ललाटे स्वस्तिकं पद्म लक्ष्मीं वा परिवेशयेत् । स्तम्भा रम्भा (:) प्रतिद्वारं माला चास्य दले गता ॥१३६६ ॥ बाहयेत्पश्चिमद्वारं पिदध्यादपराणि तु 1 इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा शुकाभा हेमवर्णा च पताकाः स्फटिकप्रभाः । पूर्वादितो विधातव्या रक्ता च ब्रह्मणः पदे नीलानन्तस्य नैर्ऋत्यां मध्ये चित्राथ पञ्च हस्तध्वजास्तद्वत्कार्या द्विकरविस्तृता: ॥१३६७॥ १ 'मोहदूरा' क . । ॥१३६८ || वासिताः । ॥१३६६॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy