________________
१४१
सोमशम्भुरचिता। मध्ये पदेऽथवा वेदीमण्डपे नवधाकृते ॥१३३६॥ वेदीपादान्तरे त्यक्त्वा कुण्डानि नव पञ्च वा । कुर्यान्मन्त्रक्रमादीशे पञ्चमं नवमं गुरुः ॥१३४०॥ एकं वा शिवकाष्ठायां प्राच्यां वा तद्गुरोः पदम् । शस्तानि तानि वृत्तानि चतुरश्रोणि वो सदो ॥१३४१॥ कन्यसे हास्तिकं कुण्डे शेषाणां द्वयगुलोत्तरम् । एवं दशकरे लिङ्गे कुण्डं कुर्यात् करद्वयम् ॥१३४२॥ वाणरत्नादिलिङ्गानां विदध्यान्मण्डपोचितान् । कुण्डानन्यानपि स्तोकात्प्रसङ्गेन च वच्मि तान् ॥१३४३॥ मुष्टिमानं शतार्थस्य शते चारत्निमात्रकम् । हस्तं सहस्रहोमे सादयुते च द्विहस्तिकम् ॥१३४४।। लक्षे चतुष्करं कुण्डं प्रयुते षट्करं स्मृतम् । कुण्डमष्टकरं कुर्यात्कोटिहोमे नचाधिकम् ॥१३४५॥ स्तम्भाय पूर्व शत्रूणां चतुरश्रं प्रकीर्तितम् । आग्नेय्यां तु भगाकार भोगावाप्त्यै प्रकीर्तितम् ॥१३४६॥ शुभदं दिशि याम्यायों कुण्डमर्धेन्दुसंनिभम् । ज्य क्षयाय नैर्ऋत्यां वारुणे सोममण्डलम् ॥१३४७॥ शान्तिमृत्युञ्जयायेषु षडधं वायुदिग्गतम् । कुण्डं कुशेशयाकारमुत्तरे पुष्टिकारकम् ॥१३४८॥ रौद्रयां भयदमष्टाश्रमिति दृष्टं शिवागमे । तिर्यग्जातिसमं खातमूर्ध्वमेखलया सह ॥१३४६॥