________________
१४०
कर्मकाण्डक्रमावलो एकास्यं चतुरास्यं वा रौद्रयां प्राच्युत्तरेऽथवा ॥१३२६॥ त्रयाणामादिलिङ्गानां विदध्यान्मण्डपत्रयम् । हास्तिकेष्टकरं शेषावेकैककरवर्धितौ ॥१३३०॥ वर्धयेदन्यलिङ्गानों द्वौ करौ प्रतिमण्डपम् । यावन्नवकरे लिङ्गे द्वाविंशतिकरो भवेत् ॥१३३१॥ होस्तिके दशहस्ते वा मण्डपे तु करेऽथवा । द्विहस्तोत्तरया वृद्ध्या शेषं स्थान्मएडपाष्टकम् ॥१३३२॥ पादादिवृद्धलिङ्गषु कुर्यात्पादानुसारतः । बाणरन जलोहादौ मण्डपे हास्तिके यथा ॥१३३३॥ यः प्रासादो भवेदेव्याः कुर्याद्वा तस्य मण्डपम् । प्रासादः सर्वलिङ्गानां ज्ञातव्यः शिवशास्त्रतः ॥१३३४॥. धनो घोषो विरागश्च काञ्चनः कामरामकौं । सुवेशो धर्मरो दक्षो नवानां नवमण्डपाः ॥१३३५॥ चतस्रः कोणगाः स्थूणा द्वेवे द्वारेषु हास्तिके । विस्तीर्णे तु यथा शोभा ता भवन्त्यपरा अपि ॥१३३६॥ वेदी चतुष्करा मध्ये कोणेषु स्तम्भसंयुता । अष्टाङ्गुलोच्छितान्येषु .वेदीनां मानमुच्यते ॥१३३७॥ द्वयङ्गुलं तु समुच्छाये विस्तारे तु करं भवेत् । क्रमेण वर्धयेदासां यावत्ता रविसंख्यया ॥१३३८॥ सान्तरे वर्धयेत्पादं विस्तारादुच्छयादपि । १ 'एकात्रं चतुरश्रंवा' ख. २ 'शोणो गौरः' ख. पाठान्तरं'
-
-