________________
सोमशम्भुरचिता। अथ लिङ्गप्रतिष्ठायां विधानमभिधीयते । सा सदा क्रियते मुक्तौ भुक्तौ देवदिने सति ॥१३१६।। विना चैत्रेण माधादौ प्रतिष्ठा मासपञ्चके । गुरुशुक्रोदये कार्या प्रथमे करणत्रये ॥१३२०॥ शुक्लपक्षे विशेषेण कृष्णेऽप्यापञ्चमं दिनम् । चतुर्थी नवमी षष्ठी वर्जयित्वा चतुर्दशीम् ॥१३२१॥ शोभनास्तिथयः शेषाः क्रूरवारविवर्जिताः । तारायोगविशेषं च जानीयाज्ज्योतिषां क्रमे ॥१३२२॥ शतभिषग्धनिष्ठार्दा अनुराधोत्तरात्रयम् । रोहिणी श्रवणश्चेति स्थिरारम्भे महोदयाः ॥१३२३॥ लग्नं च सिंहकुम्भालितुलस्त्रीवृषधन्विनाम् । भेदो नक्षत्रचिह्नानां कथितः पिङ्गलामते ॥१३२४॥ पुष्यहस्तोत्तराषाढाः पूर्वाषाढा च रोहिणी । ऋक्षाण्येतानि विप्रस्य प्रशस्तान्यथ राजनि ॥१३२५॥ पुनर्वसुम्तथा चित्रा धनिष्ठा श्रवणान्विता । विशस्तु रेवतो रुद्रा सार्धमुत्तरयाश्विनी ॥१३२६॥ शूद्रस्य च मघा श्रेष्ठा खातिः पूर्वा च फाल्गुनी। एतान्यपि विशेषेण दृश्यन्ते परमेश्वरे ॥१३२७॥ धानः पञ्चगुणां भूमि त्यक्त्वा बाधामसंमिताम् । हस्ताद्वादशसोपानान्कुर्यान्मण्डपमग्रतः ॥१३२८।।
चतुर्हस्तं चतुर मानार्थ तु तदर्धतः ।। १ ततोऽत्रपि' ख..