________________
१३८ कर्मकाण्डक्रमावली शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥१३०६॥ मध्ये पूर्णां शिलां न्यसेत्समुद्रकलशोव॑तः । पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिपु क्रमात् ॥१३१०॥ मध्याभावे चतस्रोऽपि मोतृसद्भावसंमताः।
ओंपूर्णे त्वं महाविद्ये सर्वसन्देहलक्षणे ॥१३११॥ सर्वं संपूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।। ओं नन्दे नन्दिनों पुंसां त्वामत्र स्थापयाम्यम् ।१३१२॥ प्रासादेत्र सुसंहृष्टां यावच्चन्द्रार्कतारकम् । आयुष्कामं श्रियं नन्दे देहि बाहे ...देहिनाम् ? ॥१३१३॥ अस्मिनक्षा सदा कार्या प्रासादे यत्नतस्त्वया । डों भद्रे सर्वदा भद्रे लोकानां गुरुकाम्यसि ॥१३१४॥ आयुर्दा कामदा देवि श्रीप्रदा च सदा भव । डोंजये तु सदा देवि तिष्ठ त्वं स्थापिता मया ॥१३१५।। नित्यं जयाय भूत्यै च स्वामिनो भव भार्गवि ।
रिक्त रिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे ॥१३१६।। सर्वदा सर्वदेहस्थे । तिष्ठास्मिन्नीशरूपिणि ।। गगनायतनं ध्यात्वा तत्र तत्त्वत्रयं न्यसेत् ॥१३१७॥ प्रायश्चित्तं ततोऽद्यापि विधिना विसृजेन्मखम् । क्रियाकाण्डक्रमावल्या श्रीमता सोमशंभुना ॥१३१८॥ संक्षेपेण शिलान्यासविधानमिति कीर्तितम् । १ ततोऽत्रापि' ख.।