________________
सोमशम्भुरचिता ।
१३७ मयागमानुसारेण वास्तुपूजेति कीर्तिता । पूजेयं गदितान्यत्र कुशदर्भाततैस्तिलैः ॥१२६॥ गृहेऽपि वर्तयेद्वास्तुं किंत्वेकोशीतिकोष्ठके । त्रिपदा रज्जवः कार्याः षट्पदाश्च यथा पुरा ॥१३००॥ ईशाद्याः पदिकास्तस्मिन्नोमाद्याश्च द्विकोष्ठगाः। पटपदस्था मरोच्याद्या ब्रह्मा नवपदः स्मृतः ॥१३०१॥ ईशादिषु चरक्याद्याः पूर्ववत्पूजयेद्धहिः । आहुतित्रितयं दद्यात्प्रतिदेवमनुक्रमात् ॥१३०२॥ दत्त्वा भूतबलिं लग्ने शिलान्यासमुपक्रमेत् । मध्यश्वभ्रे न्यसेच्छक्ति कुम्भं चानन्तमन्त्रितम् ॥१३०३॥ लकारारूढमूलेन कुम्भेऽसिन्धरणी शिलाम। कुम्भानष्टौ सुभद्रादीन्दितु पूर्वादिषु क्रमात् ॥१३०४॥ लोकपालाणुमिय॑स्येत्श्वभ्रेषु न्यस्तशक्तिषु । शिलास्तेष्वथ नन्दाद्याः क्रमशो विनिवेशयेत् ॥१३०५।। शम्भरैमूर्तिनाथानां यथा स्युर्भित्तिमध्यतः । तासु धर्मादिकानष्टौ कोणकोणविभागशः ॥१३०६॥ सुभद्रादिषु नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः । अजिताद्याश्च पूर्वादि जयादिष्वथ विन्यसेत् ॥१३०७॥ ब्रह्माणं चोपरि न्यस्य व्यापकं च महेश्वरम् । चिन्तयेत् च तथाध्वानं व्योमप्रासादमध्यगम् ॥१३.०८।। बलिं दत्त्वा जपेदवं विघटोषनिवार ।