________________
११४
कर्मकाण्डक्रमावली काश्चिकोदनमृगमदूर्वागोमयगोलकैः । सिद्धार्थदेधितोयैश्च कुर्यानिर्भत्सनं ततः ॥१०७३॥ तारोदधिक्रमेणाथ हृदा विद्यशशम्बरः । कलशैः स्नापयेच्छिष्यं सुधाधारणयान्वितः ॥१०७४॥ परिधाप्य सिते बस्ने निवेश्य शिवदक्षिणे । पूर्वोदितासने शिष्यं पुनः पूर्ववदाचरेत् ॥१०७५॥ उष्णीषं मुकुटं छत्रं पादुकां चामरादि च । गजाश्चशिविकादीनि करणी कर्तरी खटीम् ॥१०७६॥ अक्षमालां च दर्भाच सुक्खुवौ पुस्तकादि च । अधिकारं गुरुस्तस्मै शिष्याय विनिवेदयेत् ।।१०७७॥ दीक्षाव्याख्याप्रतिष्ठांचं ज्ञात्वायंप्रभृति त्वया । सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति ।१०७८॥ अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरम् । विनजालापनोदार्थ कुर्याद्विज्ञापनं यथा ॥१०७६।। अभिषेकार्थमादिष्टस्त्वयाहं गुरुमतिना। संहितापारगः सोऽयमभिषिको मया शिव ॥१०८०॥ तृप्तये मन्त्रचक्रस्य पचपचाहुतीर्यजेत् । दद्यात्पूर्णां ततः शिष्यं स्थापयेमिजदक्षिणे ॥१०८१॥ शिष्यदक्षिणपाणिस्था अगुष्ठाघगुलीः क्रमात् । लाञ्छयेषरत्वाय दग्धदर्भाङ्गशम्बरैः ॥१०८२॥ कुसुमानि करे दत्त्वा प्रणामं कारयेदमुम् । कुम्भे शिवेऽनलेऽमुभिस्ततस्तस्कृत्यमोदिशत ॥१०८३॥ १ 'अर्चयेत्' क.।
-