________________
सोमशम्भुरचिता। अनुग्राह्यस्त्वया शिष्यः शास्त्रदृष्टेन कर्मणा । श्रोतव्यं च शिवज्ञानं श्रावणीयं तदर्थिनाम् ॥१०८४।। संवत्सरोषिते शिष्ये दीक्षां निवर्तयेद्बुधः । अल्पमति जपं. कुर्यात्स्वल्पमग्नौ च होमयेत् ॥१८॥ इत्याचार्याभिषेकोऽयं रचितः सोमशंभुना । साधकस्याभिषेके तु निवृत्त्यादिकलात्रयम् ॥१०८६॥ मुमुक्षोरिव संशोध्य शान्त्यतीतां विशोधयेत् । ' ततः सदाशिवं ध्यात्वा मूलमन्त्रेण पूर्णया ॥१७॥
शान्तौ संयोज्य. कुर्वीत गुणापादानमष्टधा । डों हूं आत्मन् अणिमा ते भवतु स्वाहा। उगे हूं आत्मन्
लघिमा ते भवतु स्वाहा । डों हूं आत्मन् महिमा ते * भवतु स्वाहा । डों हूंओत्मन् प्राप्तिस्ते भवतु स्वाहा। डों हूं आत्मन् प्राकाम्यं ते भवतु स्वाहा । डों हूं आत्मन् ईशित्वं ते भवतु स्वाहा । ॐ हूं आत्मन् वशित्वं ते भवतु स्वाहा । डोहूं आत्मन् यत्रकामावसायिता ते भवतु. स्वाहा ।। पूर्ववद्योजनां कृत्वो पञ्चभिः. कलशैस्ततः । ॥१०८८॥ कृतपञ्चकलान्यासैः साध्यशम्बरपूजितैः । मूलसाष्टशतालब्धैरभिषिच्य . यथाक्रमम् ॥१०८६। पर्यन्ते शान्तिकुम्भेन पञ्चमेनाभिषेचयेत् । । विन्यस्याष्टसमुद्रेर्वा साध्याणुशतमन्वितैः । ॥१०६०। पूर्वोक्रष्टभिः कुम्भै रेचकोद्भवमुद्रया । उदङमखासनस्थोऽपिं चित्ते कृत्वोणिमादिकम् ॥१०६१