________________
सोमशम्भुरचिता ।
शिखान्तव्या पिशिष्यस्य व्यापकं षड़विधाध्वनः । संताय तमादाय वह्नौ विक्षिप्य तर्पयेत् ॥ १०४३॥ शिवस्यावाहनं पूजां तर्पणं विधिना चरेत् ।
१११
रुद्र तत्राधिकारेऽस्मिन् मुमुक्षं दीक्षयाम्यहम् ॥ १०४४ ॥ भव त्वमनुकूलोऽस्य रुद्रं विज्ञापयेदिति । प्रविश्यादाय चैतन्यं कृत्वात्मस्थं विधानतः निःसार्य द्वादशान्तेन देवीगर्भे निवेशयेत् । जन्मादिनिष्कृतिं यावन्मूलेनाङ्गवताऽचरेत्
॥१०४५ ॥
॥१९४६ ॥
युधेन मलादीनां तिरोधानादि साधयेत् । पाशस्य च्छेदनं दाहं प्रायश्चित्तं च पूर्ववत् ॥१०४७॥ विधाय रुद्रमभ्यर्च्य कुर्याच्छुकसमर्पणम् ।
I
हां रुद्र मनोबिन्दुरूपं शुल्कं गृहाण स्वाहा संतर्प्य विसृजेदीशं निवेश्यात्मानमात्मनि ॥। १०४८|| रेचकेनातिसंशुद्धं शिरः सूत्रे नियोजयेत् । शिरस्याम्बुबिन्दुं दद्यात्पूर्णां विधानतः ॥ १०४ ॥ विशुद्ध शिवतत्वं च पूर्वोक्तं विस्तरं स्मरेत् । ततः जो हूं शिखायै हूं फट् । इत्येवं प्रजप्तया
कर्तर्या शिवशस्त्रेण संछिन्द्यात्पूर्ववच्छिखाम् ॥ १०५० ॥ वेष्टितां गोमयेनैनां सघृतार्यां स्रुचि स्थिताम | शिखॉ हुत्वा विधानेन स्रुस्रुवौ क्षालयेज्जलैः ॥ १०५१ ॥ स्वयं मृद्भस्मना स्नात्वा स्नपयेच्छिष्यमम्बुभिः । योजनाय तदात्मानं पुनरात्मनि योजयेत् ॥ १०५२ ॥