________________
कर्मकाण्डक्रमावली। आत्मन्यादाय चैतन्यं मखसूत्रं नियोजयेत् । अम्बुिबिन्दु मारोप्य शिष्यशीर्षे सुधोपमम् ॥१०३३॥ प्रदद्याद्विधिना पूर्णामात्मतत्त्वं विशोधितम् । हाही आत्मतत्त्वविद्यातत्त्वाभ्यां नमः । शुद्धाशुद्धानुसंधानं हस्वदीर्घप्रयोगतः ॥१०३४॥ विधाय निजमन्त्रेण विद्यातत्त्वं विलोकयेत् । ललाटपट्टपर्यन्तं विद्यातत्त्वं शिशोस्ततः ॥१०३५॥ षडध्वव्यापकं ध्यात्वा विदध्यात्ताडनादिकम् । अथ माधवमाहूय यजेद्विज्ञापयेंदिति ॥१०३६॥ पूर्ववत्मखसूत्रस्थं ताडयेच्छिष्यचेतनम् । प्रवेशनादिकं कृत्वा गुरुरात्मनि योजयेत् ॥१०३७॥ द्वोदशान्ते तमानीय देवीगर्भे नियोजयेत् । जन्माधिकारभोगाई कुर्यान्मूलेन पूर्ववत् ॥१०३८॥ आयुधेन मलादीनां तिरोधानं समाचरेत् । पाशं संछिद्य कर्या पूर्वोक्तविधिना दहेत ॥१०३६।।
प्रायश्चित्तं तथा हुत्वा विष्णोः शुल्कं समर्पयेत् । डों हां विष्णो बुद्धयऽहङ्काररूपं शुल्कं ग्रहाण स्वाहा । विज्ञप्योप्रतिबन्धाय विसृज्य गरुडध्वजम् ॥१०४०॥
आत्मन्यादाय चैतन्यं शिरः सूत्रे निवेशयेत् । अर्ध्याम्बुबिन्दुमारोप्य शिष्यशीर्षे सुधोपमम् ॥१०४१॥ ददीत विधिना पणों विद्यातत्त्वं विशोधितम् । संधायानेन तत्त्वेन शिवतत्वं विलोकयेत् ॥१०४२॥
ARTHAT