________________
सोमशम्भुरचिता ।
त्रिदशेश्वरनामा च त्रिदशः कालसंज्ञकः
सूक्ष्मो भुजेश्वरश्चेति रुद्राः शान्तौ प्रतिष्ठिताः । व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्त अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिर नित्यंयोगिने ध्यानाहराय, इति द्वादश पदानि
पुरुषः कवचो मन्त्री बीजे बिन्दुयकारकौ ॥३२८ अलम्बुसा यशा नाड्यौ वायू कुकरकूर्मको । इन्द्रिये त्वक्करावस्याः स्पर्शस्तु विषयो मतः ॥१२९ गुणौ स्पर्शनिनादौ द्वावेकः कारगामीश्वरः । तुर्यावस्थेति शान्तास्थं संभाव्य भुवनादिकम् ॥९३ विदध्यात्ताडनं छेदं प्रवेशं च वियोजनम् । • आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ॥६३१ आत्मन्यारोप्य संगृह्य कलां कुण्डे निवेशयेत् । ईश तवाधिकारेऽसिन्मुमुचुं दीक्षयाम्यहम् ॥६३ भाव्यं त्वयानुकूलेन कुर्याद्विज्ञापनामिति ।
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकम् ॥९ विधायादाय चैतन्यं विधिनात्मनि योजयेत् । पूर्ववपितृसंयोगं भावयित्वोद्भवाख्यया ॥६३ हृत्संपुटात्मबोजेन देवीगर्भे नियोजयेत् । देहोत्पत्तौ हृदा पञ्च शिरसा ज्ञानहेतवे ॥६३ शिखया चाधिकाराय भोगाय कवचाणुना । लयाय चास्त्रमन्त्रेण स्रोतःशुद्धौ शिवेन च ॥६३