________________
सोमशम्भुरचिता वनदेहः प्रभुर्धाता क्रमविक्रमसुप्रभाः । बुद्धः प्रशान्तनामा च ईशानोऽक्षरसंज्ञकः ॥ शिवश्च सुशिवो बभ्ररक्षयः शंभुरेव च । अदृष्टरूपनामान्यस्तथान्यो रूपवर्धनः मनोन्मनो महावीरश्चित्राङ्गस्तदनन्तरम् । कल्याण इति विज्ञेयाः पञ्चविंशतिसंख्यया ॥९. मन्त्रोऽघोरो मरौ बीजे नाड्यौ द्वे तनुते तथा । पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ ।। विषयो रूपमेवैकमिन्द्रिये पादचक्षुपी । शब्दःस्पर्शश्च रूपं च त्रय एते गुणाः स्मृताः ॥ अवस्थात्र सुषुप्तेति रुद्रदेवस्तु कारणम् । विद्यामध्यगतं सर्व भावयेद्भुवनादिकम् || गेहूंहैंहां संधाने। त्रिकोणमण्डलं रक्तं स्वस्तिकाङ्क विचिन्तयेत् । ताडनं छेदनं तत्र प्रवेशं च वियोजनम् ॥ आकृष्य ग्रहणं कुर्याद्विद्याया हृत्प्रदेशतः । आत्मन्यारोप्य संगृह्य कलां कुण्डे निवेशयेत् ।। ६ रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति । पित्रोरावाहनं कृत्वा हृदये ताडयेच्छिशुम् ॥६१ प्रविश्य पूर्वमस्त्रेण तदात्मानं वियोजयेत् । श्राकृष्यादाय पूर्वोक्तविधिनात्मनि योजयेत् ॥ वामया योजयेयोनौ गृहीत्वा द्वादशान्ततः ।