________________
सोमशम्भुरचिता
सर्वविद्याविधाता च सुखदुःखकरो दश । अनन्तः पालको धीरः पातालाधिपतिस्तथा ।। ८३३ ।। वृषो वृषधरो वीरो ग्रसनः सर्वतोमुखः । लोहितचेति विज्ञेया दश रुद्रास्तलस्थिताः ॥ ८३४ ॥ शंभुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः । संबोहश्च विवाहश्च नभो लिप्सुर्विचक्षणः ॥८३५॥ अधो हुहुककालाग्निरुद्रो हाटक एक्च । कूष्माण्डश्चैव सत्यश्च ब्रह्मा विष्णुश्च सप्तमः ॥ ८३६ ॥ रुद्रश्चाष्टाविमे रुद्रा कटाहस्यान्तरे स्थिताः । एतेषामपि नामानि भुवनानामपि स्मरेत् ॥८३७ ।। सद्भावेश्वर महातेजः योगाधिपते मुञ्च २ प्रमथ २ शर्व २ भव २ भवोद्भव सर्वभूतसुखप्रद सर्वसान्निध्यकर ब्रह्मविष्णु रुद्रपर अनर्चितानर्चित असंस्तुतासंस्तुत पूर्वस्थित २ साक्षिन् २ तुरु २ पतङ्ग २ पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव शर्व सर्वद डों नमोनमः ॐनमः शिवाय नमोनमः इति अष्टाविंशतिपदानि ॥ सद्योहृदयनेत्राणि मन्त्रवर्णास्तु कामतः । बीजे अकारलौ नाड्यौ | इडापिंगलाह्वये ॥८३८ ॥ प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये । गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चकम् ॥८४६॥ पार्थिवं मण्डलं पीतं वज्राकं चतुरश्रकम् ।