________________
८७
कर्मकागङक्रमावली कपालोजोऽहिर्बुध्धयश्च वदेहः प्रमर्दनः । विभूतिरव्ययः शान्तः पिनाकी त्रिदशाधिपः ॥ ८२४ ॥ अग्निभद्रो हुताशश्च पिङ्गलः "खनको हरः । ज्वलनो दहनो बभ्रर्भस्मान्तकक्षयान्तकौ ॥८२५॥ 'दम्यो मृत्युहरो धोता विधाता कर्तृसंज्ञकः ।। "कालो धर्मोऽप्यधर्मश्च संयोक्ता च वियोजकः ॥ २६ ॥ नैर्ऋता मारुतो हर्ता' क्रूरदृष्टिर्भयानकः । ऊर्ध्वकेशो विरूपाक्षो धूम्रो लोहितदंष्टिणौ ॥ ८२७ ॥ बलश्चातिबलश्चैव पोशहस्तो महाबलः । श्वेवश्च जयभद्रश्च दीर्घबाहर्जलान्तकः ॥८२८॥ वडवास्यश्च भीमश्च दश ते वरुणोदिताः । शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥ ८२६ ॥ पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
जटामुकुटधारी च नानारत्नधरस्तथा ॥८३० ॥ . निधीशो रूपवान्धन्यः सौम्यदेहः प्रसादकृत् ।
प्रकामोऽप्यथ लक्ष्मीवान्कामरूपा दशोत्तरे ॥ ८३१ ॥ विद्याधरो ज्ञानधरः सर्वज्ञो बोधपारगः ।... मातृवृत्तश्च पिङ्गाक्षो भूतपालो बलिप्रियः ।। ८३२॥
-
-
-
१ कपालीशो ह्यज़ो ब्रनः' । २ 'शास्ता' । ३ 'खादकः' । ४ 'याम्यो संयोक्ता च वियोक्ता च धर्मों धर्मपतिस्तथा । ५ 'हन्ता'। ६ 'दंष्टिको ७. 'मेघनादी सुनोदी च' । ८ प्रभासकः' । .