________________
८६
सोमशम्भुरविता
॥ ८१३॥
1
॥ ८१५ ॥
निन्द्यः खावयवच्छेदो मषीकर्दममर्दनम् । तैलाभ्यङ्गान्धकूपादिपतनं न प्रशस्यते प्रायवानुसारे कृत्वा दुःखमशान्तये । नित्यकर्मयं कृत्वा प्रविश्य मखमण्डपम् ॥ ८१४ ॥ स्वाचान्तनित्यवत्कर्म कुर्यान्नैमित्तिके विधौ ततः संशोध्यमध्वानमुष्णीषं भूषणानि च विन्यस्यात्मनि पूर्वोक्तं शिवहस्तं च भास्वरम् । कुम्भार्थं पूजयेदीशमिन्द्रादीनप्यनुक्रमात् ॥ ८१६ ॥ मण्डले स्थण्डिले वापि प्रकुर्वीत शिवार्चनम् । तर्पणं पूजनं वह्नेः पूर्णान्तं वह्नितर्पणम् ॥ ८१७ ॥ दुःख दोषमो पार्थमस्त्रेणाष्टाधिकं शतम् हुत्वा संपुटेनैव विदध्यान्मन्त्रदीपनम् अन्तर्व लिविधानं च मध्ये स्थण्डिलकुम्भयोः । कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो बहिर्ब्रजेत् ॥ कुर्यात्समयवत्तत्र मण्डलारोपणादिकम् संपातहोमं तन्नाडीरूपदर्भकरान्तगम् एतत्संनिधये तिस्रो हुत्वा मूलानाहुतीः कुम्भस्थं शिवमभ्यर्च्य प्राशसूत्रमुपाहरेत् दक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्चितस्य च । तच्छिखायां निबभीयात्पादाङ्गुष्ठावलम्बितम् ॥ ८२२ ॥ तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा । ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः ॥ ८२३ ॥
॥ ८१८ ॥ *
८१९ ॥
L
॥ ८२१ ॥
॥ ८२० ॥
।