________________
कर्मकाण्डक्रमावली
८५
कलशं लोकपालांश्च पूजयित्वा निरुध्य च ॥८०२॥ विसृजेद्गणमग्निं च रक्षितं यदि बाह्यतः । बाह्यतो लोकपालानां दत्त्वा संक्षेपतो बलिम् ॥८०३॥ भस्मनों शुद्धतोयैर्वा स्नात्वा यागालयं विशेत् । गृहस्थान् दर्मशय्यायां पूर्वशीर्षास्त्ररक्षितान् ॥८०४ ॥ हृदा सद्भस्मशय्यायां यतीन दक्षिणमस्तकान् । शिखाबद्धशिखानस्त्ररक्षितान्तममानव ॥८०५॥ विज्ञाप्य वापयेच्छिष्यांस्ततो सायात्पुनर्बहिः । डों हिलिहिलि शूलपाणये नमः स्वाहा । पञ्चगव्यं चर्स प्राश्य गृहीत्वा दन्तधावनम् ॥८०६॥ समाचम्य शिवं ध्यात्वा शच्यामास्थाय पाचनीम् । दीक्षागतक्रियाकाण्डं संस्मरेत्संविशेद्गुरुः ||८०७॥ मन्त्राणां दीपनं प्रोक्तं ततः सूत्रावलम्बनम् । सुपुम्नानाडिसंयोगं शिष्यचैतन्ययोजनम् ॥८०८॥ ग्रहणं ताडनं योगं पूजातर्पणदीपनम् । बन्धनं शान्त्यतीतादेः शिवकुम्भसमर्पणम् ॥ ८०६ ॥ एवं कर्मत्र मः प्रोक्तः पाशवन्धे शिवेन तु । इति संक्षेपतः प्रोक्तो विधि-दाधिवासने. ॥१०॥ अथ प्रातः समुत्थाय कृतस्नानादिको गुरुः । शिष्यान् स्वप्नं यथादृष्टं संपृच्छेच्छुभहेतवे ॥८११॥ दध्यार्द्रमांसमद्यादेः प्रशस्ताभ्यवहारितम् । गजाधारोहणं धन्यं सितवस्त्रावगुण्ठनम् ॥८१२।।