________________
८४
सोमशम्भुरचिता । सूत्रं शिवेन साङ्गन कृत्वा संपातशोधितम् ॥७६१ ॥ विदध्यात्कलशस्याधो रक्षां विज्ञापयेत् ततः । पष्पं शिष्यकरे दत्त्वा संपूज्य कलशादिकम् ॥७६२॥ प्रणम्य च बहिर्यायाद्यागमन्दिरमध्यतः । मण्डलत्रितयं कृत्वा मुमुक्षनुत्तराननात् ॥७६३ ॥ बुभुचद पूर्ववस्त्रांश्च शिष्यांस्तत्र निवेशयेत् । प्रथमं पञ्चगव्यस्य प्राश्येच्चुलुकत्र यम् ॥७६४ ॥ पाणिना कुशयुक्तेन आचमेनान्तरात्मना । चरकं तद्वितीये तु प्रासत्रितयसंमितम् ॥७६५ ॥ अष्टपासप्रमाणं वा दशनस्पर्शवर्जितम् ।। पलाशघुटके मुक्त्यै भुक्त्यै पिप्पलपत्रजे ॥७६६ ॥ हृदा संभोजयेद्दत्त्वा पूत. आचमयेज्जलैः । दन्तकाष्ठं हृदा दत्त्वा तद्दन्तायविचर्वितम् ॥७६७ ॥ धौतमूर्ध्वमुखं भूमौ क्षेपयेत्पातमुन्नयेत् । प्राक्पश्चिमोत्तरे चोय वदने पातमुत्तमम् ॥ ७६८ ॥ सर्वेषामेव शिष्याणामितरास्यमशोभनम् । अशोभननिषेधार्थ शतमस्त्रेण होमयेत् ॥७६९ ॥ न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतम् । विधाय स्थण्डिलेशाय सर्वकर्मसमर्पणम् ॥८००॥ पूजाविसर्जने चास्य चण्डेशस्य च पूजनम् ।
कीय च निर्माल्यं त्रिभिर्गोमयगोलकः ॥८०१ ॥ भूमि संशोद्ध्य मूलेन शेषमग्नौ बजेच्चरोः ।