________________
कर्मकाण्डक्रमावली।
८१ ओहः हूंफट शक्तिसूत्रेण हांहांस्वाहेति चाणुना ॥७६४॥ संहार मुद्रया सूत्रे नाडीभूते नियोजयेत् । ओं हां हां हां आत्मने नमः ।। व्यापयेद्भावयेदेकं तनुत्रेणावगुण्ठयेत् ॥७६५ ॥ आहुतित्रितयं दद्याद्धृदि संनिधिहेतवे ।। विद्यादेहं च विन्यस्य शान्त्यतीतावलोकनम् ॥ ७६६ ॥ तस्यामितरतत्त्वाढयमन्तर्भूतं विचिन्तयेत् । गेहूं शान्त्यतीताकलापाशाय नमः इत्यनेन अवलोक्य
द्वे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश ॥ ७६७॥ तथाष्टौ भुवनान्यस्यां बीजनाडीकखद्वयम् । विषयं च गुणं चैकं कारणं च सदाशिवम् ॥ ७६८ ॥
सितायां शान्त्यतीतायामन्तर्भाव्य प्रताडयत् । डों हूं शान्त्यतीताकलापाशाय हूं फट । संहारमुद्रयादाय निदध्यात् सूत्रमस्तके ॥ ७६६॥ पूजयेदाहुतोस्तिस्रो दद्यात्संनिधिहेतवे ।।
तत्त्वे द्वे अक्षरे द्वे च बीजनाडीकखद्वयम् ॥७७० ॥ गुणौ मन्त्री तथाजस्थमेकं कारणमीश्वरम् । पदानि भानुसंख्यानि पुराणि दश सप्त च ॥ ७७१ ॥ एकं च विषयं शान्तेः कृष्णाया मध्यतः स्मरेत् । ताडयित्वा समादाय मुखमूले नियोजयेत् ॥७७२ ॥ जुहयानिजबीजेन सांनिध्यायाहुतित्रयम् ।