________________
प्रथमो लम्भः
अथापि रसनाकण्डूखण्डनाय विनिर्मिता । विज्ञप्तिः श्रोतुमधुना श्रीमन्तं संप्रतीक्षते ।। ३२ ।।
१५
देव श्रीमदीयभुजपरिघालालिता भूमिभामिनी भुजान्तरारोपणम्, नन्दनवनोल्लासिता हरिचन्दनलतेव वनान्तरम् चूतबनकलिता मल्ली-वल्लीव स्नुहिबनम्, कमलवनालया लक्ष्मीरिवार्कवनम्, अरविन्द्रस्यन्दिमकरन्दमुदिता चञ्चरीकपक्तिरिव गोक्षुर कवनम्, सज्जनसंदोह - समभ्यस्यमाना विद्येव कुद्रष्टिजनं नार्हति । अयं किल राजधर्मः श्रीमद्भिरवश्यं ज्ञातव्यो, यन्निजहृदयमपि सर्वथा न विश्वसनीयं किमुत जनान्तरम्, किन्तु सर्वेषामपि स्वीयत्वेन विश्वसनीयत्वेन ज्ञातव्यो यथा चन्द्रसूयौं ।
धर्मार्थयुग्मं किल काममूलमिति प्रसिद्धं नृप नीतिशास्त्रे । मूले ते कामकथा कथं स्यात्केकायितं वा शिखिनि प्रणष्टे ॥ ३३ ॥ उर्वश्यामनुरागतः कमलभूरासावकीर्णा ? क्षणात्
पार्वत्याः प्रणयेन चन्द्रमकुटीऽप्यर्थाङ्गनोऽजायत ।
निश्चयेन, तथा तेन प्रकारेण न घटते न संगतं जायते, यथा येन प्रकारेण, इह लोके, विश्वस्मिन् निखिल - संसारे प्रसिद्धः प्रथितः सुरभिर्गन्धो यस्य तस्मिन् मृगनाभिपुजे कस्तूरीसमूहे, मल्लीसुमेन मालतीकुसुमेन, सुरभीकरणं सुगन्धीकरणं, न घटत इति क्रियासम्बन्धः ॥३१॥
"
अथापि - अथापि तथापि, रसनाया जिह्वायाः कण्डूः खर्जनं तस्याः खण्डनं तस्मै, विनिर्मिता कृता, विज्ञप्तिः प्रार्थना, अधुना साम्प्रतम्, श्रोतुमा कर्णयितुम्, श्रीमन्तं भवन्तम्, संप्रतीक्षते भवतः प्रतीक्षां कुरुन इत्यर्थः ॥३२॥
देव इति - हे देव हे राजन् ! श्रीमदीयेन भवदीयेन भुजपरिघेण वाह्वर्गलेन, आलालिता सम्यग् - धृता भूमिभामिनी महीमहिला, नन्दनवने पुरन्दरोपवन उल्लासिता वर्धिता, हरिचन्दनलता कल्पवृक्षविशेषवल्लरी वनान्तरमित्र काननान्तरमित्र, चूतवनकलिता माकन्दारण्योद्भूता मल्लीबल्ली मालतीलता स्नुहीवनमिव गुडाकानन मित्र 'वज्रः स्नुक् स्त्री स्नुही गुडा । समन्तदुग्धा' इत्यमरः 'थूवर इति प्रसिद्ध वनस्पतिवनमिवेति यावत्, कमलवनं वारिजविपिनमालयो निवासो यस्याः सा, लक्ष्मीः श्रीः, अवनमित्र 'आक' इति - प्रसिद्धवृक्षकाननमिव, अरविन्देभ्यः कमलेभ्यः स्यन्दिना तरता मकरन्देन कौसुमेन सुदिता प्रहृष्टा चञ्चरीकपङ्क्ति मरश्रेणिः गोक्षुरकवनमित्र 'गोखुरू' इति प्रसिद्ध कण्टकिवनस्पति गहन मित्र, सज्जनसन्दोहेन साधुसमूहेन समभ्यस्यमाना सम्यगाराध्यमाना विद्या कुदृष्टिजनमित्र मिथ्यादृष्टिपुरुपमिव, भुजान्तरारोपणं बाह्वन्तराश्रयणम्, नार्हति न तद्योग्यास्ति । अयं वच्यमाणः, किलेति वार्तायाम्, राजधर्मः पृथिवीपतिकर्तव्यम्, श्रीमद्भिर्भवद्भिः अवश्यं प्रावान्येन ज्ञातव्यो बोधव्यः, यत्, निजहृदयमपि, स्वचेतोऽपि सर्वथा सर्वप्रकारेण, न विश्वसनीयं न विश्वासभाजनमस्ति किमुत जनान्तरं लोकान्तरम् । किन्त्येवं सत्यपि, सर्वेषां निखिलानामपि, स्वीयत्वेनात्मीयवेन, विश्वसनीयत्वेन च विश्वासभाजनत्वेन च चन्द्रसूर्यौ यथा शशदिवाकराविव, ज्ञातव्यो बोधव्यः । यथा चन्द्रसूर्यौ सर्वेषां स्वकीयत्वेन विश्वसनीयत्वेन च ज्ञायेते तद्दन्नृपतिरपि सर्वेपा स्वयत्वेन विश्वसनीयत्वेन च ज्ञातव्य इति भावः ।
धर्मार्थयुग्ममिति — हे नृप हे राजन्, नीतिशास्त्र नीत्यागमे, कामस्य कामपुरुषार्थस्य मूलं कारणम्, धर्मार्थयोर्धर्मार्थपुरुषार्थयोर्युग्मं युगलम्, अस्तीति प्रसिद्ध प्रख्यातम्, किलेति वार्तायाम्, मूले कारणभूते, धर्मार्थयुग्मे गते नष्टे सति, शिखिनि मयूरे, प्रणष्टे गते मृते वा, केकायितं वा केके ' वा स्याद्विकल्पो पमयांरिवार्थेऽपि समुच्चये' इत्यमरः कामस्य मदनस्य कथा चर्चा कामकथा कथं केन प्रकारेण, स्याद्भवेत् ॥३३॥ उर्वश्यामिति---उर्वश्याम् एतन्नामस्ववैश्यायाम्, अनुरागतः, प्रेम्णा, कमलभूर्ब्रह्मा, क्षणादचिरम्, १. वकीर्णः ब० ।