________________
जीवन्धरचम्पूकाव्ये
अमूर्तरप्यनङ्गस्य सत्सु सञ्जीवनष्विव ।
अन्येष्वन्तःपुरेष्वेपा राज्ञः प्राणा इवाभवत् ।। २६ ।। शृङ्गारसागरतरङ्गपरम्परां तां
देवीं सुखेन रमयन्नधिपो नराणाम् । आनन्दसिन्धुजठरे विलुठन्सदायं
गीर्वाणराजपदवीं च तृणाय मेने ॥ ३० ॥ अथैकदा भूपालमणिरयमग्रगण्योऽपि प्राज्ञपरिषदामधिपतिरपि राजनविदामधिकोऽपि परावरतत्त्वयाथात्म्यवेदिनामुदाहरणमपि सकलसमुचिताचाराणाम् , कामपरतन्त्रितचित्ततया कृत्याकृत्यमजानानः, कर्मसारथिचोदित इव सज्जनवनविलसदङ्गाराय काष्टाङ्गाराय काश्यपी दातुमियेप। ततो विदितवृत्तान्ता मूर्तिमन्त इव राजतःत्रम वा विवर्ता इव प्रजाभागधेयानां प्रकारा इव कुलप्रतिष्ठायाः परिणाम इव क्षमानुरागाणां पारदृश्वानः शास्त्रपाथोनिधीनाममात्यमुख्याः स्वयं संमन्व्य नरपतिमभ्येत्य समुचितं विज्ञापयामासुः ।
देव त्वयि प्रथितनीतिपयोधिचन्द्रे विज्ञापनं न घटते ध्रुवमरमदीयम् । विश्वप्रसिद्धसुरभी मृगनाभिपुजे मल्लीसुमेन सुरभीकरणं यथेह ॥३१॥
अमूर्तेरिति-अमूतैरपि शरीररहितस्यापि, अनङ्गस्य कन्दर्पस्य, सञ्जीवनेषु जीवनदायके पु, अन्येवितरेपु, अन्तःपुरेप्ववरोधेषु विविधवनितासमूहेविति यावत् । सत्सु विद्यमानेप्यपि, एपा विजया, राज्ञो नरपतेः, प्राणा इव चेतनेत्र, अभवद् बभूव सर्वाधिकनियासीदिति भावः ॥२६॥
शृङ्गारेति-शृङ्गारसागरस्य शृङ्गारपाथोधेस्तरङ्गपरम्परां कल्लोलमालाम्, ताम्, पूर्वोक्ताम्, देवीं महिषीम्, सुखेन शर्मणा, रमयन् क्रीडयन् , सदा शश्वत् , आनन्दसिन्धुजठरे प्रमोदपारावाराभ्यन्तरे, विलुठन् लुण्ठनं कुर्वन् , च, अयं नराणामधिप एप सत्यन्धरो नृपः, गीर्वाणराजस्य पुरन्दरस्य पदवीं पदं तृणाय मेने तृणवत्तुच्छं मेने मन्यते स्म 'मन्यकर्मण्यनादरे' इति चतुर्थी । इन्द्रादप्यात्मानं श्रेष्ठं मन्यते स्मेति भावः ॥३०॥
अथैकदेति-अथानन्तरम्, एकदैकस्मिन् समये, अयं भूपालमणिरेप राजश्रेष्टः, प्राज्ञपरिपदाम् विद्वन्समितीनाम्, अग्रगण्योऽपि प्रमुखोऽपि, राजनयविदां राजनीतिज्ञानाम् अधिपतिरपि प्रधानोऽपि, परावरतत्त्वानामुच्चावचपदार्थानां याथात्म्यं स्वस्वरूपं विदन्ति जानन्ति, तेयाम् , अधिकोऽपि श्रेष्टोऽपि सकलाश्च ते समुदाचाराश्च तेपां निखिलोत्तमव्यवहाराणाम्, उदाहरणमपि निदर्शनमपि सन् ; कामेन मदनेन परतन्त्रितं स्ववशीकृतं चित्तं मनो यस्य, तस्य भावस्तत्ता तया कृत्याकृत्यम् 'इदं कर्तव्यमिदञ्च न कर्तव्यम्' इति, अजानानोऽबुध्यमानः, कमैव सारथिस्तेन चोदितः स इव विधिसूतप्रेरित इव, सज्जनाः साधव एव वनं काननं तस्मिन् विलसन शोभमानो योऽङ्गारस्तद्र पाय, काष्ठाङ्गाराय-एतन्नामसचिवविशेपाय, काश्यपी क्षितिम्, दातुमियेष दातुमभिलषितवान् ।
तत इति-ततस्तदनु, विदितो विज्ञातो वृत्तान्त उदन्तो यैस्ते, मूर्तिमन्तः शरीरधारिणः, राज्ञां तन्त्रमन्त्रा इव, तन्त्रः स्वराष्ट्रस्य चिन्तनम्, मन्त्रो मन्त्र्यादिभिः सह गुप्तविमर्शः, प्रजाया जनताया भागधेयानि भाग्यानि तेषां विवर्ता इव पर्याया इव, कुलस्य गोत्रस्य प्रतिष्ठाः - सकृतिस्तस्याः प्रकारा इव विशेपा इव, क्षमानुरागाणां पृथिवी प्रेम्णाम् परिणामा इव पर्याया इव, शास्त्रपाथोधीनामागममहोदधीनाम्, पारं दृष्ट्वन्तः पारदृश्वानः पारगामिनः, अमात्यमुख्याः सचिवप्रधानाः, स्वयं स्वत एव, संमन्त्र्य सम्यग् विमृश्य, नरपतिं सत्यन्धरमहाराजम्, अभ्येत्य सम्मुखमागत्य, समुचितं सूचित्तं यथा स्यात्तथा, विज्ञापयामासुनिवेदयाञ्चक्रुः॥
देव इति-हे देव हे राजन् ! नीतिरेव पयोधिर्नीतिपयोधिनयसागरस्तस्य चन्द्रः शशी, प्रथितः प्रसिद्धश्वासौ नीतिपयोधिचन्द्रश्च तस्मिन् , त्वयि भवति, अस्मदीयं मामकीनम्, विज्ञापनं निवेदनम्, ध्रुवं