________________
चतुर्थो लम्भः
ततः कल्पतरुषु प्रमोदवाष्पविन्दूनिव प्रसूननिकरानव किरत्सु दुन्दुभिस्वनितेषु दिगन्तरालविजृम्भितेषु, मन्दारवनकुटुम्बिगन्धवहस्तनन्धये मन्दसञ्चारमन्थरे, रविकोटिसदृक्षेषु यक्षेषु समन्तात्प्रणामदक्षेपु, मञ्जुमञ्जीररवमुखरितदिगन्तरासु सुराङ्गनासु मधुरगानकला विलसितनर्तनकुशलासु, सुप्तोत्थित इवायं दिशि दिशि दृशं व्यापारयन् विस्मयसंमदपूरयोः संगमे निमग्नः, तत्क्षणजनितावधिज्ञानतरणिमवलम्ब्य प्रबुद्धजीवकोपदिष्टमन्त्रप्रभावविलसितदेवभूयः, तत्र जये - त्यादिशब्दमुखर मुखैर्निलिम्पैः सप्रश्रयमेत्य किरीटमणिवृणिराजिनीराजितचरणनी रेजैविज्ञापितं मङ्गलमज्जनजिनेन्द्रपूजादिकं यथानियोगमातन्वन्, जीवन्धरस्वामिवरिवस्यापरायणः परिवारैः सह तदुपकण्ठमाटिटीके ।
तवार्य मन्त्रप्रभवा ममेदृशी विभूतिरित्यादिनुतिं समाचरन् । विधाय पूजामिह जीवकस्य वै प्रादान्मुदा दिव्यविभूषणान्यसौ ||१५|| [ स्मर्तव्योऽस्मि महाभाग व्यसनोत्सवयोस्त्वया । कर्त्तव्योऽहं कृतार्थश्चेत्युक्त्वा देवस्तिरोऽभवत् ॥ ]
८१
शोभा यस्य तथाभूता, अजृम्भत ववृधे, पूर्णतारुण्यवती बभूवेति भावः । उपमाशार्दूलविक्रीडितच्छन्दः ॥१४॥ तत इति—ततस्तदनन्तरम्, कल्पतरुषु देवानोकहेपु, प्रमोदबाष्प विन्दुनिव हर्षां सीकरानिव प्रसूननिकरान् पुष्पसमृहान्, अवकिरत्सु वर्षात्सु, दुन्दुभीनां भेरीणां स्वनितानि शब्दास्तेषु, दिगन्तरालेषु काष्ठामध्येषु विजृम्भितानि प्रसृतानि तेषु मन्दारवनमेव कल्पानोकहकाननमेव कुटुम्बी गृहस्थस्तस्य गन्धवह एव वायुरेव स्तनन्धयो बालकस्तस्मिन् मन्दसञ्चारेण शनैःशनैर्गमनेन मन्थरो मन्दस्तथाभूते, रविकोटिभि - बहुभिः सूर्यैः सदृक्षाः सदृशास्तेषु यज्ञेषु व्यन्तरामरविशेषेषु समन्तात्परितः प्रणामे नमस्करणे दत्ताः समर्थास्तेषु, मञ्जुना मनोहरेण मञ्जीररवेण नूपुर निनादेन मुखरितानि वाचालितानि दिगन्तराणि काष्टामध्यानि याभिस्तासु, सुराङ्गनासु देवीषु, मधुरगानकलया सुन्दरसंगीतवैदग्ध्या विलसितं शोभितं यन्नर्तनं नृत्यं तस्मिन् कुशला निष्णातास्तासु सतीपु, अत्र सर्वत्र 'यस्य च भावे भावलक्षणम्' इत्यनेन सप्तमी, आदौ सुप्तः पश्चादुत्थित इति सुप्तोत्थितः शयनानन्तरमुत्थितः स इव दिशि दिशि प्रतिदिशम्, वीप्सार्थे द्वित्वम्, शं लोचनम्, व्यापारयन् संचारयन्, विस्मयश्चाद्भुतं च संमदपूरश्च हर्पसमूहश्चेति तौ तयोः, संगमे संमेलने, निमग्नो बुडितः, तत्क्षणं तत्कालं जनितं समुत्पन्नं यदवधिज्ञानमेव अवधिबोध एव तरणिः सूर्यस्तम्, अवलम्ब्य समाश्रित्य तत्प्रयोगेणेति यावत्, जीवकेन जीवन्वरेणोपदिष्टः श्रावितो यो मन्त्रः पञ्चनमस्कारमन्त्रस्तस्य प्रभावेण माहात्म्येन विलसितं प्राप्तं यद् देवभूयं देवत्वम् तत् प्रबुद्धं ज्ञातं जीवकोपदिष्टमन्त्रप्रभावविलसितदेव भूयं येन तथाभूतः, अयं कुक्कुरचरो यक्षः, अत्र स्वावासे, जयेत्यादिशब्दैर्मुखराणि वाचालितानि मुखानि वदनानि येषां तैः, निलिम्यैर्देवैः सप्रश्रयं सविनयम्, एत्यागत्य किरीटमणीनां मौलिरत्नानां घृणिराजिभिः किरणपङ्क्तिभिर्नीराजिते कृतारात्रि के चरणनीरेजे पादारविन्दे यैस्तथाभूतैः सद्भिः, विज्ञापितं निवेदितम्, मङ्गलमज्जनं मङ्गलस्नानं जिनेन्द्रपूजा जिनसपर्या चादौ यस्मिंस्तत्, कार्यम्, नियोगमनतिक्रम्येति यथानियोगं यथानियमम्, आतन्वन् कुर्वन्, जीवन्धरस्वामिनो वरिवस्यायां पूजायां परायणस्तत्परः सन्, परिवारैः परिजनैः, सह सार्धम्, तदुपकण्ठं जीवन्धरपार्श्वम्, आटिटीके - आजगाम । 'टीकृ गतौ' इत्यस्याङपूर्वस्य लिटि रूपम् ।
"
वार्य मन्त्रप्रभवेति - हे आर्य ! हे पूज्य ! मम मण्डलचरस्य, ईदृशी भवन्नयनगोचरा, विभूतिरैश्वर्यम्, तत्र भवतः, मन्त्रः पञ्चनमस्कारात्मकः प्रभवः कारणं यस्यास्तथाभूता, अस्तीति शेषः, इत्यादिनुतिमित्येवमादिकस्तुतिम् समाचरन्कुर्वन् असौ यक्षः, इह राजपुरनगरोपवने, जीवकस्य जीवन्धरस्य, पूजां सपर्याम्, विधाय कृत्वा, मुदा हर्षेण, दिवि भवानि दिव्यानि तानि च तानि विभूषणानि चेति दिव्यविभूषणानि स्वर्गीयाभरणानि तानि प्रादाद् दत्तवान्, वें पादपूरणे निश्चये वा । वंशस्थेन्द्रवंशयोरुप मिश्रणादुपजातिवृत्तम् ॥ १५ ॥
[स्मर्तव्योऽस्मीति - हे महाभाग हे महेच्छ ! अहमेष मण्डलचरो जीवस्त्वया भवता व्यसनोत्सवयोः १ एष श्लोको मुद्रित पुस्तके नास्ति ।
११