________________
जीवन्धचम्पूकाव्ये
मन्तरुत्कुलितदुःखाम्बुधियोपमिव प्राणमहीपालस्य प्रयाणसंसूचक भेरीभाङ्कारमिवाक्रन्दनारावमातन्वानमन्तरुज्ज्वलितदुःखाग्निज्वालामिव शोणितधारामुट्टिन्तं सारमेयमवलोक्य, अपारकरुणाकरो जीवन्धरो बहुप्रयत्नैरपि प्रत्युज्जीवयितुमशक्नुवानः परलोकसमर्थापनपरतन्त्रं पञ्चमन्त्रमुपादिक्षन् ।
श्रवसा परमं मन्त्रं मनसा हन्त मा स्पृशन् । कुक्कुरो विजही प्राणान्दुःखलेशविवर्जितः ||१२|| चन्द्रोदयाह्वयगिरौ विमलोपपाद
८०
शय्यातले रुचिरवैक्रियिकाख्यदेहे । arat सदंशुकरो नवयौवनश्रीः
प्रादुर्बभूव स सुदर्शननामयक्षः ||१३|| राकाचन्दिरदत्तदास्यममलं यस्यास्यपङ्केरुहं
नेत्रे वीतनिमेपकेऽकलयतां निष्कम्पमीनश्रियम् । पाणी कल्पकपल्लवप्रतिघृणी माणिक्यभूपोज्ज्वला
मूर्तिः पुष्पितकल्पपादपलतास्फूर्तिस्तदाजृम्भत ||१४||
द्विजाः' इत्यमरः, हन्यमानं मार्यमाणम्, अन्तरभ्यन्तर उत्कुलितः कूलमुत्कान्त्य वृद्धिंगतो दुःखाम्बुधिरसातसागरस्तस्य घोषः शब्दस्तमिव प्राणमहीपालस्य जीवितजगतीपतेः, प्रयाणसंसूचकः प्रस्थाननिवेदको यो भेरीभाङ्कारस्तमिव, आक्रन्दनारावं रोदनध्वनिम्, आतन्वानं विस्तारयन्तम्, अन्तरभ्यन्तर उज्ज्वलितः प्रदीप्तो यो दुःखाग्निर्व्यथावैश्वानरस्तस्य ज्वालाचिस्तामिव, शोणितधारां रुधिरसन्ततिम्, उद्गिरन्तं वमन्तम्, सारमेयं सरमासुतं कुक्कुरमिति यावत्, अवलोक्य दृष्ट्वा, अपारकरुणाकरोऽनन्त दयासागरः, जीवन्धरः सत्यन्धरसुतः, बहुप्रयत्नैरपि भूरिप्रयासैरपि प्रत्युज्जीवयितुं प्रत्युज्जीवितं कर्तुम्, अशक्नुवामोseमर्थः सन्, परलोकस्य स्वर्गादेः समर्थापने प्रापणे परतन्त्रं समर्थम्, पञ्चमन्त्रं नमस्कारमन्त्रम्, उपदिदेश, ' शल इगुपधादनिटः क्सः' इति क्सः । पञ्चमन्त्रोऽयं यथा ' णमो हरहंताणं णमो सिद्धाणं णमो आइरियाणं । णमो उवज्झायाणं णमो लोए सव्वसाहूणम्' |
श्रवसेति — कुक्कुरो मण्डलः, परमं सर्वोत्कृष्टम्, मन्त्रं पञ्च नमस्कारमन्त्रम्, श्रवसा कर्णेन स्पृशन् स्पृष्टं कुर्वन् मनसा चेतसा मा स्पृशन् नो स्पृशन्, दुःखस्य लेशेन विवर्जितो दुःखलेशविवर्जितः असातांशपरिमुक्तः सन्, प्राणान् - आयुः प्रभृतीन् विजहौ तत्याज, 'ओहाक् त्यागे' इत्यस्य लिटि रूपम् । हन्तेति हर्षे । यद्यसौमनसापि मन्त्रं स्पृशेत्तर्हि सर्वदुःखेन परिवर्जितो भवेदिति तत्त्वम् ॥ १२ ॥
चन्द्रोद्याह्वयगिराविति --- स कुक्कुरः, चन्द्रोदयाह्वयगिरौ चन्द्रोदयनामपर्वते, विमलञ्च तदुपपादशय्यातलञ्चेति विमलोपपादशय्यातलं तस्मिन् निर्मलोपपादशयनतले, देवनारकाणां हि जन्म स्वावासेषु निश्चितेषु शयनविशेषेषु भवति । ते च शयनविशेषा 'उपपादशय्या' इति नाम्ना प्रकीर्त्यन्ते, देवनारका अग भजन्मानो भवन्तीति तत्त्वम् । रुचिरो मनोहरश्चासौ वैक्रियिकाख्यदेहश्च वैक्रियिकनामशरीरश्च तस्मिन्, स्रग्वी मालाधरः 'अस्माया मेधास्रजो विनिः' इति विनिप्रत्ययः । सदंशुकधरः सहस्त्रधारकः, नवयौवनश्रीनूतनतारुण्यलक्ष्मीकः, सुदर्शननामयक्षः सुदर्शनाभिधानव्यन्तरविशेषः, प्रादुर्बभूव समुत्पन्नो बभूव । योऽष्टवि धव्यन्तरदेवान्यतमः । तथाहि - 'व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः' इति ॥ १३ ॥ राकाचन्दिरेति- -यस्य सुदर्शनयक्षस्य तदा प्रादुर्भूतिसमय एव, अमलं निष्कलङ्कम्, आस्यमेवपङ्केरुहमित्यास्यपङ्केरुहं मुखकमलम्, राकाचन्दिराय पूर्णिमारजनीशाय दत्तं दास्यं येन तत् तथाभूतम्, अभूदिति शेषः । वीतं गतं निमेषकं पचमस्पन्दनं ययोस्ते, नेत्रे नयने, निष्कम्पयोर्निश्चलयोर्मीनयोः श्रीः शोभा ताम्, अकलयताम्-अबिभृताम्, पाणी हस्तौ कल्पपल्लवयोः सुरतरुकिसलययोः प्रतिघृणी प्रतिद्वन्द्विनौ, आसतामिति शेषः, माणिक्त्यानां रत्नानां भूषा आभरणानि ताभिरुज्ज्वला निर्मला, मूर्तिः शरीरम्, पुष्पिता चासौ कल्पपादपलता चेति पुष्पितकल्पपादपलता कुसुमितकल्पानोकहवल्ली तस्याः स्फूर्तिरिव स्फूर्तिः
१. भूषोज्ज्वला ब० ।