________________
६६
* जिनवाणी संग्रह *
वयं विताधिकारः । मुक्ताकलापकलितोरुसितातपत्रव्याजात्त्रिधा धृतधनुधुवमभ्युपेतः ॥ २६ ॥ स्वेन प्रपूरितजगत्त्रय पिण्डितेनकान्तिप्रतापयशसामिव सञ्चयेन । माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नमितो विभासि ||२७|| दिव्यास्त्र जो जिन नमस्त्रिदशाधिपानामुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वा परत्र त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्त्यसुमतो निजपृष्ट लग्नान् । युक्त हि पार्थिवनिपस्य सतस्तवैव चित्रं विभो यति कर्मविपाकशून्यः ॥ २६ ॥ विश्वेश्वरोऽपि जनपालक दुगतस्त्वं किं वाक्षरप्रकृतिरप्य लिपिस्त्वनीश | अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३० ॥ प्राभारसम्भृतनमांसि रजांसि रोपादुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यङ्गर्ज दूर्जितघनौघमदभ्रभीमं भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि द तेनैव तस्य जिन दुस्तरवारिकृत्यम् ॥ ३२ ॥ ध्वस्तोर्ध्वकेशविकृताकृतिमत्येमुण्डप्रालम्बभृद्भयदवक्त्रविनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ये त्रिसन्ध्यमाराधयन्ति विधिवद्विधुतान्यकृत्याः । भक्तयोलसत्पुलकपक्षमलदेहदेशाः पाद द्वयं तव विभो भुवि जन्मभाजः ॥ ३४ ॥ अस्मिन्नपारभववारिनिधौ मुनीश ! मन्ये न मे श्रवणगोचरतां गतोऽसि आकर्णिते तु तव गोत्रपवित्रमन्त्रे किं वा विपद्विषधरी सबिधं समेति ॥३५॥