________________
* जिनवाणी संग्रह -
यो वा तत्पति मत्तवरिपतृवने यस्यात्मजो वा गुहः ॥ सोऽयं किं मम शङ्करो भयतृषारोषार्तिमोहक्षयं । कृत्वा यः स तु सर्बबित्तनुभृनां क्षेमकरःशङ्करः ॥ २॥ यत्नाद्येन विदारितं कररुहैदैत्येन्द्रवक्षः स्थलम् । सारथ्येन धनञ्जयस्य सारे योऽमारयत्कौरवान् ॥ नासो विष्णुरनेककालविधयं यज्ज्ञानमव्याहतम्। विश्वव्याप्यविजम्भते सतु महाविष्णुःसदृष्टो मम ॥ ३॥ ऊर्वश्यामुदपादि रागवलं
चेतो यदीयं पुनः । पात्री दण्डकमण्डलुप्रभृतयो यस्याकृतार्थस्थितिम् ॥ आविर्भावयितु भवन्ति स कथं ब्रह्माभवेन्मादृशाम् । क्षुत्त. ष्णाश्रमरागरोगरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ४॥ योजग्ध्वा पिशितंसमत्स्यकबलं जीवंच शून्यं बदन् । कर्ताकर्मफल न भुक्त इतियो बक्ता स बुद्धःकथम् ॥ यज्ञानं क्षणवर्ति वस्तु सकले ज्ञातुं न शक्त सदा। योजानन्युगपजगत्त्रयमिदं साक्षात्सबुद्धो मम ॥५॥
स्रग्धरा छन्द-ईशः किं छिन्नलिंगो यदि विगतभयः शूल. पाणि: कथं स्यात् । नाथः किं भक्ष्यचारी यतिरिति स कथ सांगनः सात्मजश्च ॥ आर्द्राजः किन्त्वजन्मा सकलविदिति किं वेति नात्मा. न्तरायः । सक्षपात्सम्यगुक्त पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ ६॥ ब्रह्मा वर्माक्षसूत्री सुरयुवतिरसावेग विभ्रांतताः । शम्भुः खरवाङ्गधारीगिरिपतितनयापांग लीलानुविधः । विष्णुश्चकाधिपः सन्दुहितरमगमेद्गोपनाथस्य मोहादहन्विश्वस्तरागो जितसकलभयः कोऽयमेष्वाप्तनाथः ॥ ७॥
शार्दूल विक्रोडित छन्द-एको नत्यति विप्रसार्य ककुभां चक्र सहस्र भुजानेकः शेषभुजङ्गभोगशयने व्यादाय निद्रायते। दृष्ट चारुतिलोत्तमामुखमगा देकश्चतुर्वक्त्रता । मेते मुक्तिपत्रं वदन्तिविदुषा मित्येतदत्यनतम् ॥८॥