________________
* कल्याणमन्दिरस्तोत्रम् *
जन्मान्तरेऽपि तव पादयुगं न देव ! मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां जातो निकेतनमहं म थिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन पूर्व विभो सकृदपि प्रविलोकितोऽसि । मर्माविधा (भिदों) विधुरयन्ति हि मामनथी: प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥ ३७ ॥ आकर्णितोपि महितोऽपि निरीक्षितोपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मितेन जनबांधव दुःखपात्र' यस्मात्क्रिया: प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्पुण्यवसते वशिनां वरेण्य । भक्त्या नते मयि महेश दयां विधाय दुःखाङ्कुरो - द्दलनतत्परतां विधेहि ॥ ३६ ॥ निःसंख्यसारशरणं शरणं शरण्यमासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्थ्यो वन्ध्योऽस्मि तद्भुवनपावन हा हतोऽस्मि ॥४०॥ देवेन्द्रवन्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाहद मां पुनीहि सीदन्तमद्य भयदव्यसनान्बुराशेः॥ ४१ ॥ यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां भक्त : फल' किमपि सन्ततसचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलक कञ्चुकिताङ्गभागाः । त्वद्विम्ब निर्मलमुखाम्बुजब
लक्ष्याः ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३॥ जननयनकुमुदचन्द्र- - प्रभास्वराः स्वर्गसम्पदो भुक्त्वा । ते विगलितम लनिचया अचिरान्मोक्ष प्रपद्यन्ते ॥ ४४ ॥
६७