________________
१४
* जिनवाणी संग्रह *।
आलोच्य सर्वमेनः कृतकारितमनुमतं व निर्याजं । आरोपयेन्महाव्रतमामरणस्थायि निश्शेषं ॥ १२५ ॥ शोक भयमवसादं क्लदं कालुष्यमरतिमपि हित्वा । सत्वोत्साहमुदीयं च मनः प्रसाद्य श्र तैरमृतैः ॥ १२६ ।। आहारं परिहाप्य क्रमशः स्निग्धं विवद्धयेत्पानम् । स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ १२७ ॥ खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पंचनमस्कारमनास्तनु त्यजेत्सवयत्न न ॥ १२८ ॥ जीवितमरणाशंसे भयमित्रस्मृतिनिदाननामानः । सल्लेखनातिचाराः पञ्च जिनेन्द्र : समादिष्टाः ॥ १२६ ॥ निःश्र यसमभ्युदयं निस्तारं दुम्नरं सुखाम्बुनिधिम् । निष्पिवति पोतधर्मा सर्वदुःखैरनालोढ़ः ॥ १० ॥ जन्मजरामयमरण : शाकंदुःभयश्च परिमुक्तम् । निर्वाणं शुद्धसुखं निःश्र यसमिष्यते नित्यम् ॥ १३१ ।। विद्यादर्शनशक्तिस्वास्थ्यप्रादप्तिशुद्धियुजः । निरतिशया निरवधयो निःश्र यसमावसन्ति सुखं ।। १३२॥ काले कल्पशतेऽपि व गते शिवानां न विक्रिया लक्ष्या। उत्पातोऽपि यदि स्यात् त्रिलोकसम्भ्रान्तिकरणपटु ॥ १३३ ॥ निःश्रेयसमधिन्नास्त्रैलोक्यशिखामणिश्रियं दधते। निष्किटिकालिकाच्छविचामोकरभासुरात्मानः ॥ १३४ ।। पूजार्थानं श्वर्यबलपरिजनकामभोगभूयिष्ठः । अतिशयितभुवनमद्भुतमभ्युदयं फलति सद्धर्मः ॥ १३५ ॥ श्रावकपदानि देवेरेकादश देशितानि येषु बलु।