________________
* श्रीरत्नकरण्ड श्रावकाचार *
--
-
-
गिरिपातोऽग्निपातश्च लोकमूह निगद्यते ॥ २२ ॥ वरोपलिप्सयाशावान् रागद्वषमलोमसाः । देवता यदुपासीत देवतामूढ़मुच्यते ॥ २३ ॥ सग्रन्थारम्भहि सानां संसारावर्त्तवर्तिनाम् । पाखण्डिनां पुरस्कारो शेयं पाखण्डिमोहनम् ॥ २४ ॥ ज्ञान पूजां कुलं जाति वलमृद्धि तपो वपुः । अष्टावाश्रित्य मानित्वं स्मयमाहुगतस्मयाः ॥ २५ ॥ स्मयेन योऽन्यानत्येति धमस्थान् गर्विताशयः । सोऽत्येति धर्ममात्मीयं न धौ धार्मिक विना ॥ २६ ॥ यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम् । अथ पापात्रवोऽस्त्यन्यसम्पदा किं प्रयोजनम् ॥ २७ ॥ सम्यग्दर्शनसम्पन्नमपि मानङ्गदेहजम् । देवा देवं विदुर्भम्मगूढाङ्गारान्तरौजसम् ॥ २८ ॥ श्वापि देवोऽपि देवः श्वा जायते धर्मकिल्विषात् । कापि नाम भवेदन्या सम्पद्धर्माच्छरीरिणाम् ॥ २६ ॥ भयाशास्नेहलोभाञ्च कुदेवागमलिंगिनाम् । . प्रणाम विनयं चैव न कुर्युः शुद्धदृष्टयः ॥ ३० ॥ दर्शन ज्ञानवारित्रात्साधिमानमुपाश्नुते । दर्शन कर्णधारं तन्मोक्षमार्गे प्रवक्ष्यते ॥ ३१॥ विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदया: । न सन्त्यसति सम्यक्त्वे वीजाभावे तरोरिव ॥ ३२ ॥ गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान् । अनगारो गृही श्रेयान् निर्मोहो मोहिनो मुनेः ॥ ३३ ॥