________________
L
* जिनवाणी संग्रह # 耄
इदमेवेशमेव तत्वं नान्यन्न चान्यथा । इत्यकस्पायसाम्भोवत्सन्मार्गेऽसंशया रुचिः ॥ ११ ॥ कमपरवशे सांते दुःखेरन्तरितोदये ।
पापबीजे सुखेऽनास्था श्रद्धानाकाङक्षणा स्मृता ॥ १२ ॥ स्वभावतोऽशुचौ काये रत्नत्रयपवित्रिते । निज गुप्सागुणप्रीतिर्मता निर्विचिकित्सिता ॥ १३ ॥ कापथे पथि दुःखानां कापथस्थेऽप्यसम्मतिः । असंपृक्तिरनुत्कीर्तिरमृदा दृष्टिरुच्यते ॥ १४ ॥ स्वयं शुद्धस्य मार्गस्य बालाशक्तजनाश्रयाम् । वाच्यतां यत्प्रमार्जन्ति तद्वदन्त्युपग्रहनम् ॥ १५ ॥ दर्शनाश्चरणाद्वापि चलतां धर्मवत्सलः । प्रत्यवस्थापन' प्राज्ञः स्थितिकरणमुच्यते ॥ १६ ॥ स्वयूथ्यान्प्रति सद्भावसनाथापेतकैतवा । प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥
:
अज्ञानतिमिरख्याप्तिमपाकृत्य यथायथम् ।
जिनशासनमाहात्म्यप्रकाशः स्यात्प्रभावना ॥ १८ ॥ नावदञ्जनवौरोऽङ्ग ततोऽनन्तमतीस्मृता । उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥ १६ ॥ ततो जिनेन्द्रभक्तोऽन्यो वारिषेणस्ततः परः । विष्णुश्च वज्रनामा च शेषयोर्लक्ष्यतां गतौ ॥ २० ॥ नाङ्गहीनमलं छेत्तु दर्शनं जन्मसन्ततिम् । न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम् ॥ २९ ॥ आपगासागरस्नानमुच्चयः सिकताश्मनाम् ।