________________
* श्रीरत्नकरण्ड श्रावकाचार *
श्रीसमन्तभद्र स्वामी विचित । ५श्ररित्नकरराह श्रावकाचार नमः श्री वर्द्धमानाय निधू तकलिलात्मने । सालोकानां त्रिलोकानां यद्विद्यादर्पणायते ॥ १ ॥ देशयामि समीचीनं धर्मं कर्मनिवहणम् । संसारदुःखतः सत्वान्यो धरत्युत्तमे सुखे ॥ २॥ सदृष्टिज्ञानवृत्तानि धर्म धर्मेश्वरा विदुः । यदीयप्रत्यनोकानि भवन्ति भवपद्धतिः ॥ ३ ॥ श्रद्धानं परमार्थानां माऽप्तागमतपोभृताम् । त्रिमूढापोढ़मष्टाङ्ग सम्यग्दर्शनमम्मयम् ॥ ४ ॥ आप्त नोच्छिन्नदोषेण सर्व नागमेशिना । भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥ ५ ॥ क्षुत्पिपासाजरातङ्कजन्मांतकभयस्मयाः । न रागदेषमोहाश्च यस्याप्त: स प्रकीर्यते ॥ ६॥ परमेष्ठी परंज्योतिर्विरागो विमलः कृती। सर्वशोऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते ॥ ७ ॥ अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शन्मुरजः किमपेक्षते ॥ ८ ॥ आप्तोपशमनुल्लङध्यमद्रष्टष्टविरोधकम् । तत्वोपदेशकृत्सा शास्त्र कापथघट्टनम् ॥ ६ ॥ विषयाशाबशातीतो निरारम्मोऽपरिग्रहः । शानध्यानतपोरक्तस्तपस्वी स प्रशस्यते ॥ १० ॥