________________
* श्रीरत्नकरण्ड श्रावकाचार *
1
स्वगुणाः पूर्वगुणैः सह संतिष्ठन्ते क्रमविवृद्धाः ॥ १३६ ॥ सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विण्णः पञ्चगुरुचरणशरणो दर्शनिकस्तत्वपथगृह्यः ॥ १३७ ॥ निरतिक्रमणमण व्रतपञ्चकमपि शीलसप्तकं चापि । धारयते निःशल्यो योऽसौ व्रतिनां मतो व्रतिकः ॥ १३८ ॥ चतुरावर्त्तत्रितयश्चतुष्प्रणामः स्थितो यताजातः । सामयिको द्विनिषद्य स्त्रियोगशुद्धस्त्रिसन्ध्यमभिवन्दो ॥ १३६ ॥ पर्वदिनेषु चतुर्ष्वपि मासे मासे स्वशक्तिमनिगुह्य । प्रोषधनियमविधायी प्रणधिपरः प्रोषधानशनः ॥ १४० ॥
१५
मूलफलशाकशाखाकरीरकन्दप्रसून बीजानि । नामानि योऽत्ति सोऽयं सवित्तविरतो दयामूर्तिः ॥ १४१ ॥ अन्न पानं खाद्य' लेह्य ं नाश्नाति यो विभावयम् । स व रात्रिभुक्तिविरतः सत्वेष्वनुकम्पमानमनाः ॥ १४२ ॥ मलबीजं मलयोनि गलन्मल' पूतिगन्धिबीभत्स । पश्यन्नङ्गमनङ्गाद्विरमति यो ब्रह्मचारी सः । ॥ १४३ ॥ सेवाकृषिवाणिज्यप्रमुखादारम्भतो व्युपारमति । प्राणातिपातहेतोर्योऽसावारम्भविनिवृत्तः ॥ १४४ ॥ बाह्य दशसु वस्तुषु ममत्वमुत्सृज्य निर्ममत्वरतः । स्वस्थः सन्तोषपर: परिचित्त परिग्रहाद्विरतः ॥ १४५ ॥ अनुमतिरारम्भे वा परिग्रहे वैहिकेषु कर्मसु वा । नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः ॥ १४६ ॥ गृहतो मुनिवनमित्वा गुरूपकण्ठ व्रतानि परिगृहा ।
भैक्ष्याशनस्तपस्यन्नुत्कृष्टश्च लखण्डधरः ॥ १४७॥
•