________________
जैनागमों में स्याद्वाद एवं चास्य प्रयोग ---अस्त्यात्मादिवस्तु, पूर्वाध्ययनप्ररूपितत्वात् , यच्चास्ति 'लोके' पञ्चास्तिकायात्मके लोक्यते-प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्व' निरवशेष द्वयो पदयो स्थानयो पज्ञयोर्विषतिनातुनद्विपये यज़न गयोरवतारो यस्य तत् द्विपदावतारमिति, 'दुपडोयारं' ति क्वचित् पठ्यते, तत्र द्वयो प्रत्यवतारो यस्य तत् द्विप्रत्यवंत रमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थ , 'तद्यथे' त्युदाहरणोपन्यासे, जीवच्चेव अजीवच्चेत्ति, जीवाश्चैवाजीवाश्चैव, . प्राकृतत्वात संयुक्तपरत्वेन हस्त्र , चकारौ सच्चयार्थों, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नो जीवाख्यं राश्यन्तरमस्तीति चेत् , नैवम् , सर्वनिषेधकत्वे नोशन्दस्य नोजीवशन्देनाजीव एवं प्रतीयते, . देशनिषेधकत्वे तु जीवदेश एव प्रतीयते; न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, चेय' इति वा एवकारार्थ 'चिय चय एवार्थ इति वचनात् , ततश्च जीवा एवेति विवक्षितवस्तु अंजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत सन्मानं यदित्यर्थ तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेपं तथैव । अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति--तसे चेवे' त्यादि, तत्र त्रसनामकर्मोदयस्त्रस्यन्तीति बसा.-द्वीन्द्रियादय स्थावरनामकर्मोदयात तिष्ठतीत्येवशीला स्थावरा -पृथिव्यादय, सह योन्याउत्पत्तिस्थानेन सयोनिका -ससारिणस्तद्विपर्यासभूतां अयोनिका-सिद्धा, सहायुपा वर्तन्ते इति सायुषस्तदन्येऽनायुप - सिद्धा, एवं सेन्द्रिया -संसारिण, अनिन्द्रिया -सिद्धादय ,