________________
जैनागमों मे स्याद्वाद
ऽल्पकाया वा पञ्च न्द्रिया अथवा 'महालया' महाकाया. 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालय - शरीर येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदृशं 'वर' मिति वज्र कर्म विरोधलक्षण वा वैरं तत् 'सदृश' समान तुल्यप्रदेशत्वात्सर्व जन्तूनामित्येवमेकान्तेन नो वदेत् तथा 'विसदृशम्'असदृशं तद्वथापत्तौ वरं कर्मबन्धो विरोधो वा इन्द्रिय विज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेशतुल्यत्वे न सदृश वैरमित्येवमपि नो वदेत्, यदि हि वध्यापेक्ष एव कर्मबन्ध स्यात्तदा तत्तद्वशाकर्मणोऽपि सादृश्यमसादृश्यं वा वक्तु युज्येत् न च तद्वशादेव बन्धः अपि त्वध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वै रम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति ॥ ६ ॥ एतदेव सूत्रेणैव दर्शयितुमाहआभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वासघशत्वयोर्व्यवहरण' व्यव-, हारो नियुक्तिकत्वान्न युज्यते, तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्व' चेत्येतदपि । तदेव वध्यवधकयो विशेषणत्कमबन्धविशेष इत्येव व्यवस्थिते वध्यमेवाश्रित्य सहशत्वासहशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति, तथाहि-यज्जीवसाम्यात्कर्मबन्धसदृशत्वमुच्यते, तदयुक्त, यतो न हि जीवव्यापत्त्या हिसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमश