________________
श्री प्रज्ञापनपाङ्ग पञ्चमं पर्ययपदम्
१७६
तेन (शत) गुणकारेण गुणिले जायन्ते दशसहस्र ण, तत शतप रमाणकृष्णवर्णपर्यायो नारक परिपाक रणव पिर्याय नारक,पेक्षया अनन्तगुणहीन इतरस्तु तदपेक्ष राऽ मन्तगुणाभ्यधिक , यथा कृष्णवर्ण पर्यायानधिकृत्य हानो वृद्धौ च षट् स्थानपतितत्वमुक्तमेवशेषवर्णगन्धरस स्पर्शेरपि प्रत्येक षट्स्थानपतितत्वंभावनीय, । तदेव पुद्गलविपाकिनामकर्मोदय जनितजीवौदयिकभावाश्रयेण षट्स्थानपतितत्वमुपदशितं, इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति-'आभिणि बोहिणाणपज्जवेहिं' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधिकादिपु षटयानपतितत्त्व भावनीय, इह द्रव्य तस्तुल्यत्व वदता समूछिमसवप्रभेदनिर्भेदबीज मयूराण्डकरसवदनभिव्यक्तदेशकालक्रम प्रत्यवत्रद्धविशेषभेदपरिणतेर्योग्यद्रव्यमित्यावेदितं, अवगाहनया चतु स्थानपतितत्वमभिवदता क्षेत्रत सकोचविकोचधर्मा आत्मा न तु द्रव्यप्रदेशसख्याया इति दर्शित, उक्त चैतदन्यत्रापि-"विकसनसकोचयोनयोर्नस्तो द्रव्यप्रदेशसख्याया । वृद्धिह्रासौ स्त क्षेत्रतस्तु तावात्मनस्तस्मात् ॥ १ ॥" स्थित्या च स्थानपतितत्व वदताऽऽयु कर्मस्थितिनिवर्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदशिता, अन्यथा स्थित्या चतु स्थानपतितत्वायोगात् , आयु कर्मचोपलक्षणं तेन सर्वकर्मस्थितिनिवर्तकेष्वप्यध्यवसायेपूत्कर्षापकर्षवृत्तिरवसातव्या, कृष्णादिपर्यायैः षट्स्थानपतितत्त्व