________________
जैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (७७
गृज्ञः कः । ५ । १ । ५१ । इ. सू. विपूर्वक वुध् धातोः कतरि कः ।) देवाः विद्वांसो वा अभिधा (उपसर्गादात । ५ । ३ । ११० । इ. सू. अभिपूर्वक धाधातो. स्त्रियां अड् । आत् । २ । ४ । १८ । इ. सू. स्त्रियामाप् । ) नाम तस्या गुणेषु लयं विश्राम न लभन्ते । यत् यस्मात् कारणात् ते विबुधाः परमार्थे तस्वाथै हष्टि येषां ते दीर्घदशिनो वर्तन्ते । कोऽर्थः न विद्यते प्युत प्यवनं यस्मिन् तत् नाकिधाम स्वर्ग गत स कथमत्रावतीर्ण । पर मिन्द्रगोपवत् तन्नाममात्रमेवेतित्वं त्यक्त्तवानिति भावः ॥ ६२ ॥ निरीक्ष्यतां तीर्थतः पितुः श्रियं, न चक्रिसंपद्यपि तोषभीयुषा । तदर्थ भेव प्रयतं ततस्त्वया, त्रपा हि तातोनतया सुखनुषु ॥ ६३ ॥
(या०) निरीक्षेति ॥ हे नाथ ततोऽनंतर त्वया तदर्थमेव तीर्थंकर श्रीनिमित्तमेव प्रयत मुपक्रान्तं किं विशिष्टेन त्वया तीर्थकृत' (तीर्थकरीतीति तीर्थकृत् । कि५ । ५ । १ । १४८ । इ. सू. तीर्थपूर्वक कृ धातोः कि५ । इत्यस्य तः पित्कृति । इ. सू. तोऽन्त.) तीर्थंकरस्य पितु. तां श्रियं लक्ष्मी निरीक्ष्य दृष्ट्वा चक्रिणः (अतोऽनेक स्वरात् । ७ । २ । ६ । इ. सू. चक शब्दात् मत्वर्थे इन् ) संपद् (कुत्सम्पदादिभ्यः । ५ । ३ । ११४ । इ. सू. संपूर्वकपद् धातोः स्त्रियां भावे कि५ ।) चक्रिसंपद् तस्यां चक्रवर्तिलक्ष्म्यामपि तोष (भावाकोंः । ५ । ३ । १८ । इ. सू. तुष्, धातो वे वञ् । लघोरुपान्यस्य । ४।३ । ४ ।इ.सू उपान्त्यगुणः) हर्ष न ईयुषा न प्राप्तवता । हि निश्चित सुसूनुषु सत्पुत्रेपु तातात् उनता हीनता तथा तातहीनतया त्रपा लज्जा (पितोऽड् ५। ३ । १०७ । इ. सू. त्रपूषु धातो स्त्रियामड् । आत् इ. सू आप ) पर्तते ॥ कोऽर्थः वज्रसेनस्य तीर्थंकरस्य वज्रनाभः पुत्रश्चक्रीजात तेन चक्रित्वं विहाय संयम गृहीत्वा विशतिस्थानकैस्तीर्थकरनामकर्म उपार्जितम् । अतश्चकिलदग्यास्तीर्थंकरलक्ष्मी धिकेति भावः ॥ ६३ ॥ ससीमसार्थ विमान, वासिनः, शिवश्रियः संगमभिच्छतोऽपि ते । अभूद्विलंतस्तदसंस्तुते जने, रिरंसयाकोनदधाति मन्दताम् ॥ ६४ ॥