________________
७६) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
↓
२ । २३ । इ. सू आयादेशः भावेत्व त । ७ । १ । ५५ । इ. सू. भावेऽर्थे तल । नाम्नो नोऽनहनः । २ । १ । ९१ । इ. सू. नस्य लुक्) हालाहलस्य धूमपायिता हालाहलधूमपायिता तां विषसत्कधूमपत्वं अवाप प्राप्तः ॥ ततस्तस्मात् कारणात् अधुनापि (सदाऽधुनेदानीं तदानी मेतर्हि । ७ । २ । ९६ । इ. सू. अधुना निपात्यते ॥ ) तव मनः अंगजतः कंदर्पात् विश्वास बहिर्मुखं विश्वासात् बहिर्मुखं यस्य तत् विश्वासरहितं वर्तते । कोऽर्थ :- अंगजशब्देन कंदर्पः पुत्रोऽपि स॒ण्यते । भवता वज्रजंधनृपभवे अंगजान्मरणं प्रापि । पश्चात् तीर्थकृद्भवे भगवन्मनों गजस्य कामस्योपरि विश्वासरहितं जातमिति भावः ॥ ६० ॥
1
उपास्य युग्मित्वमथाधकल्पग - सुधाशनीभूय भिषग् भवान भूत् मुने: किलासं व्यपनीय यः स्वर्क, कलाविलासं फलितं व्यलोकत ||
( व्या० ) उपास्येति । हे नाथ अथ अनन्तरं भवान् युग्मित्वमुपास्यसंसेव्य आधकल्पगसुधाशनी भूय प्रथम देवलोके देवो भूत्वा भिषग् वैथोऽभूत् ] यो भिषण वैद्यो मुने: किलासं कुष्टरोगं व्यपनीय स्फेटयित्वा स्वकं स्वकीय मात्मीयं कलानां विलासस्तं (भावाऽकर्त्रीः । ५ । ३ । १८ । इ. सू. विपूर्वक स् धातोः भावे घञ् ञ्णिति । ४ । ३ । ५० । इ. सू. लस धातो रुपान्त्यस्य अस्य वृद्धिः) फलितं सफलं व्यलोकत अपश्यत् ॥ ६१ ॥
अथे शिवान च्युतनाकिधाम चे-दवातरस्तत्किमिह प्रभोऽथवा । लयं लभन्ते विबुधाहि नाभिधा - गुणेषु यत्ते परमार्थदृष्टयः || ३२ ॥
( व्या० ) अथेति ॥ अथानंतर हे प्रभो चेत् यदित्वं अच्युतनाकिधाम अच्युताभिधे स्थिता ये नाकिनो देवास्तेषां धाम तत् अच्युतनामानं देवलोकं ईथिवान् (वेयिवदनाश्वदनूचानम् । ५ । २ । ३ । इ. सू. भूतोऽर्थे इ धातोः कर्तरि सुप्रत्ययो निपात्यते इयाय इति ईयिवानू ) गतः । ततस्तस्मात् देवलोका दिह पृथिव्यां किमवातरः अवतीर्ण अथवा विबुधा (नाम्युपान्त्य श्रीक