________________
७८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टोकासमलंकतम् ॥ सर्गः २
(व्या०) स इति ॥ हे नाथ ते तव ससीमासन्न च तत् सर्वार्थविमान च तस्मिन् वसति इति ससीमसर्वार्थ विमानवासी । (अजातेः शीले । ५ । १ । १५४ । इ. सू. वस् धातोः शीलेऽथै णिन् ।) तस्य सत: शिवस्य श्रीः तस्याः मोक्षलदम्याः संगमं मीलन मिच्छतोऽपि यद्विलंयोऽभूत् । तत् असंस्तुते अपरिचिते जने रिरसिया (शंसि प्रत्ययात् । ५ । ३ । १०५ । इ. सू. रिंस धातोः स्त्रियामः । आत् । इ. सू. स्त्रियामाप् ) रन्तुमिच्छया मन्दतां जडतां को न दधाति अपि तु सर्वकोऽपि दधात्येव ॥ ६४ ॥
ध्रुवं शिवश्रीस्त्वयि रागिणी यत-स्तटस्थितस्यापि भविष्यदीशितः। असंस्पृशनमारविकारजरजः, स्वसौख्यसर्वस्वमदत्त ते चिरम् ॥६५॥
(व्या०) ध्रुवमिति ॥ हे नाथ ध्रुवं निश्चितं शिवस्य श्रीः शिवश्रीः मोक्षलक्ष्मी: त्वयि रागिणी रागवतो वर्तते । यतो यस्मात् कारणात् ते तव त2स्थितस्यापि आसन्नस्थितस्यापि चिरं चिरकालं स्पसौख्यसर्वस्व मात्मीय सुखसर्वस्व मदत्त । किं लक्षणस्य ते भविष्य (शत्रानशावेष्यति तु सस्यौ । ५।२।२०। इ. सू. भूधातोः भविष्यदर्थे स्य सहित शत प्रत्ययः विशेषणं विशेष्येणेकार्थ कर्मधारयश्च । ३ । १ । ९६ । इ. सू. विशेषण कर्मधारयसमास:) दिशितु: (तृन् शीलधर्म साधुषु । ५ । २ । २७ । इ. सू. शीलादि सदथै ई२ धातो: तन् ।) भाविभर्तुः किं कुर्वत् स्वसौख्यसर्वस्वं मारस्य कामस्य विकारः तस्मात् जातं तत् विषयविकारज रजः पाप धूलि वा असंस्पृशत् नसंस्पृशतीति ॥६५॥
अवाप्य सर्वार्थविमानमंतिकी-भवत्परब्रमपद दध्वगः । यदागमस्त्वं पुनरत्र तद् ध्रुव, हितेच्छया भारतवर्षदेहिनाम् ॥६६॥
(०या०) अवाप्येति ॥ हे नाथ त्वं सर्वार्थविमानमवाप्य प्राप्य यत्पुनरत्रागमः अनागतः किं विशिष्टत्वं अतिकीभवत् (कृम्वस्तिम्यां कर्मकर्तृभ्यां प्रागतत्तत्वे विः । ७।२। १२६ । इ. स. अन्तिक शब्दात् पिः । ईशवाय