________________
श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (७९
वर्णस्याऽनव्ययस्य । ४ । ३ । १११ । इ. स. च्चौपरे अन्तशब्दस्य अकारस्य । इ:) समीपीभवत् परब्रह्मणः पदं यस्य स समीपीभवन्मोक्षपदः तदध्वगः (नानो गमः खड्डौ च विहायसस्तु विहः । ५। १ । १३९ । इ. सू. गम् धातोर्डः ।) तस्य मोक्षस्य अध्वानं गछतीति मोक्षपथिकः ततः ध्रुवं निश्चित भारतवर्षस्य भरतक्षेत्रस्य देहिनः प्राणिनस्तेषां भरतक्षेत्रदेहिनां हितस्येच्छा तथा भुक्तिमुक्तिदानार्थ मित्यर्थः त्वं सर्वार्थविमानादेव आसन्नत्वेऽपि मुक्ति न गतः किन्तु लोकहितेच्या एव अत्रावतीर्णः इति भावः ॥ ६६ ॥
तदेव भूयात् प्रमदाफुलं कुलं, मही महीनत्व मुपासिषीष्ट ताम् ।। क्रियाजन स्वस्तुतिवादिन दिनं, तदेव देवाऽजनि यत्र ते जनिः॥
(व्या०) तदेवेति । हे नाथ तदेव फुलं प्रमदेन (संमदप्रमदौ हर्षे । ५ । ३ । ३३ । इ. सू. हर्षेऽर्थे प्रमद शब्दोऽलन्तो निपात्यते ।) हर्षेणाकुळ व्याप्तं भूयात् हीनस्य भावो हीनत्वं न हीनत्व महीनत्वं संपूर्णत्वं कृतपदं तां महोपृथ्वीमुपासिषीष्ट सेविषीष्ट तदेव दिन जन लोकं स्वस्तुतिवादिनं स्वस्थ निजस्य स्तुतिः श्लाघा तां वदतीति तं स्वकीयश्लाघाकार क्रियात् (रिः शक्या शीर्थ । ४ । ३ । ११० । इ. सू. कृ धातो: *कारस्य आशीर्थेपरे रिः ।) तदिनस्य महामहोत्सवमयत्वात् । हे देव हे स्वामिन् यत्र कुले यत्र मयां यत्र दिने तव जनिर्जन्म अजनि (जन् धातोः कर्तरि अद्यतनी । दीप जनबुधिपूरितायियायो वा । ३ । ४ । ६७ । इ. सू जन् धातो चिंच वा तछन् च ।) जातम् ॥ ६७ ॥
अभी धृताः किं पविचवारिजा-सयः शये लक्षणकोश दक्षिणे । शचीशचचयच्युतभूपसंपद्, रत्यया निजोपासकसाधिकर्षिता ॥६॥
(व्या०) अमोति । हे लक्षणकोश लक्षणानां प्रासादपर्वत शुकांकुश पभाभिषेक यव दर्पण चामराणीत्यादि अष्टोत्तरसहताना लक्षणानां कोश: तत्सं