________________
८०) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
बोधने हे भांडागार त्वया शचीशः इन्द्र चक्री चक्रवर्ती अच्युतो वासुदेव भूपो राजा तेषां संपदो लक्ष्मीः निजोपासक सात् (तत्राधीने । ७ । २ । १३२ । इ. सू. निजोपासक शब्दात् अधीनेऽर्थे सात् निजस्यात्मनो ये उपासकाः सेवकाः तेषा मधीना स्वकीय सेवकायताः चिकीर्षता (शत्रान शावेष्यति तु सस्यौ । ५ । २ । २० । इ. स. सन्नान्तात् कृ धातोः वर्तमाने श प्रत्ययः) कतुमिछता सता दक्षिणे शये (पुन्नाम्नि घः । ५ । ३ । १३० । इ. स. शीड् धातोघे ।) हस्ते पविचक्र वारिजासया पविश्चवज्रं चक्रं च वारिजश्च शंखः असिश्च खग: अभी कि धृता' त्वया इन्द्रपदवीदानायेत्यादि भाव. ॥ ६८ ॥
सदंभलोभादिभटब्रजस्त्वया, स्वसंविदा मोहमहीपती हते । स्वयं पिलाता घनवारिवारिते, दवे न हि स्थेममृतः स्फुलिंगकाः ॥
(व्या०) सदंभ इति । हे नाथ त्वया स्वस्य संविद (कुत्सम्पदादिभ्यः क्वि५ । ५ । ३ । ११४ । इ. सू. संपूर्वक विद्धातो. क्विप् ।) ज्ञान तया स्वकीयज्ञानेन मोह एव मह पति भूपस्तस्मिन् मोह भूपे हते सति सदंभलोमादिभटनज: दंभेन मायया सह वर्तन्ते लोभादयश्च भटाश्च सुभटास्तेषां व्रजः) गोचर संचर वह व्रज व्यज खलापण निगम व भग कपाकपनिकषम् । ५ । ३ । १३१ । इ. स. व्रजशब्द धान्तो निपात्यते ।) समूह स्वयमात्मनैव विलाता विलयं यास्यति । 'लाञ्च' विश्लेषणे धातो: विपूर्वस्य 'लोड्लिनोर्वा' इति सूत्रेणात्वम् । हि यस्मात् कारणात् दवे दावानले धनस्य (मूर्ति निचिताने धनः । ५ । ३ । ३७ । इ. सू हन् धातोरल धनादे शश्च) मेवस्य वारिजलं तेन पारिते सति स्फुलिंगका स्थैम (वर्णादिभ्यष्टयण च वा । ७ । १ । ५९ । स्थिर शब्दात् इमन् । प्रियस्थिर स्फिरोरु-द्रम् । ७ । ४ । ३८ । इ. सू. स्थिरस्य इमनिपरे स्थादेशः ।) स्थैर्य विनतीति स्थैर्यधारिणो न वर्तन्ते इति ॥
इधुः सुखव्यासनिरासदा सदा, सदानवान् यस्य दुनोति नाकिनः। स्मगे भवयानमये विभावसा-बसावसारेध्मदशां गमिष्यति ॥७॥