________________
શ્રીનૈનજી માલક્ષ્મવાત્ર્યંમદ્દાાવ્યમ્ ટીજાલમનૃતમ્ ॥ લોઃ ૨ (૮૨
( ०या० ) इपुरिति । यस्य स्मरस्य कंदर्पस्य इषुर्वाणः सदा निरंतरं दानवै. 'सह वर्तन्ते इति तान् दानवसहितान नाकः स्वर्गेऽस्ति एषामिति तान् देवान् दुनोति पीडयति । इषु' शब्द स्त्रीलिंगो ज्ञेयः किंलक्षण | इ५. सुखस्य व्यासो विस्तारस्तस्य निरासं (भावाऽकर्त्री' । ५ । ३ । १८ । इ. सू. विपूर्वकात् च निर पूर्वकाल अस्धातोः भावे घञ् । ञ्णिति । ४ । ३ । ५० । इ. सू. वृद्धि 1) निराकरणं ददातिसुख व्यास निरासदा ( आतोडोऽहवा वामः । ५ । १ । ७६ । ड. सू. दाधातो ङः) हे नाथ असौ स्नर काम भवतो ध्यानं तन्मये 'ध्यानं निर्विषयं मन. ' - इत्येवंरूपे ध्यानमये विभावसौ वैश्वानरेऽनले असारं तुच्छं च तत् - इध्म च काष्ठं तस्य दशामवस्थां गमिष्यति यास्यति ॥ ७० ॥ परं नहि त्वत् किमपीह दैवतं तवाभिघातो न परं जपाक्षरम् । न पुण्यराशिस्त्वदुपासनात्पर-स्तवोपलंभान्न परास्ति निर्वृतिः ॥७१॥
( व्या० ) परमिति ॥ हे नाथ त्वत् परं त्वत् अन्यत् इह जगति किमपि दैवतं नास्ति त्रिभुवनजनपूज्यत्वात् इह जगति तव अभिघातः तव नामतः परं जपाक्षरं नास्ति सर्वोत्कृष्टत्वात् । इह जगति तवउपासनात्सेवनात् (अनटू । ५ । ३ । १२४ । इ. सू. उपपूर्वक आसूघतो० नपुंसके भावे अनट् ) परोऽन्यः पुण्यानां राशि: समूहो नास्ति । तथा च इह जगति तव उपलभात् (भावाड, कर्त्रीः । ५ । ३ । १८ । इ. सू. उपपूर्वक लभ्धातो धन् । लभ. । ४ । ४ । १०३ ।. इ. सू. उपान्त्येनू ) साक्षात्कारात् पराऽन्या निर्वृति मुक्तिर्नास्ति वीत, राग विना नैव मुक्तिरित्यर्थः ॥ ७१ ॥
हृदि निवसामीत्युक्तिरीशे न योग्या, --
-3 मम हृदि निवस त्वं नेति नेता नियम्यः ।
r
न विझुरुमयथाहं भाषितुं तद्यथा,
1. मयि कुरुकरुणा खात्मनैव प्रसादम् ॥ ७२ ॥ (याद) तवेति । हे नाथ अहं तव हृदि हृदये
निवसामि इत्युक्तिर्जल्पन मी स्वामिनि न योग्य त्वं मम हृदि निवस निवासं कुरु इत्यमुना प्रकारेण नेता स्वामी न नियम्य: (यममद गदोऽनुपसर्गातु । ५ । १ । ३० ।
Th