________________
जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (७३
तप-एवं-धनं येषां ते तपोधनास्तेभ्यः (चतुर्थी । २ । २ । ५३ । इ. सू. तपो धनेभ्यः इत्यत्र चतुर्थी ।) यतिभ्यो यदाज्यं वृत मदीयत दीयतेस्म । किं कूर्वता भवता धनीयता (अमान्ययात् क्यन् च | ३ | ४ । २३ । इ. सू. धनशब्दात् इच्छायां क्यनू क्यनि । ४ । ३ । ११२ । इ. सू. क्यनिपरे अस्थाई: शत्रान शाप्यतितु सस्यौ । ५-२-२० । इ. सू. धनीय नामधातोः सदर्थे कर्तरि शतृ प्रत्ययः) धनमिच्छता । अनेन आज्येन हे वृषध्वज वृषः वृषभो लाञ्छनं यस्य स तस्य संबोधने हे वृषध्वज कौतुक्रमाश्चर्य तवैव वृषः वृषभः पुण्यं वा शिवाय (श्विधातोः कर्तरिपरोक्षा) ववृधे । कोऽर्थः पात्रे दत्तेन दानेन धनसार्थवाहेन महत्पुण्यमर्जितम् । उक्तंच 'दानेन धन्यो धनसार्थवाहः कर्मोत्तमं तीर्थंकरस्यनाम, बबंध कर्मक्षयहेतुभूतं दानं हि कल्याणकरं नराणाम् ॥ ५५ ॥
1
मधे द्वितीये भुवनेश युग्मितां कुरुष्ववाप्ते त्वयि किंकरायितम् ! मनीषितार्थ क्रियया सुरद्रुमै, जितैरिव प्राग् जननापवर्जनेः ॥ ५६ ॥
( व्या० ) भवे इति || ' मर्तगयाय १ भिंगा २ तुडियंगा ३ दीव ४ जोइ ५ वित्तंगा ६ चित्तरसा ७ मुणियंगा ८ गेहागारा ९ अणियणाय १० ॥१॥ सरसमझ १ मणिभाजन २ वा ३ रत्नप्रदीप ४ तेजोमंडल ५ चित्रकारिसुरभिपुष्य ६ विचित्रखाद्यमोज्य ७ मणिभूषण ८ निश्रेणिसोपानकलित विविध धवलगृहादि ९ प्रधानवस्त्राणि १० एतैः पूर्णाये दशविधकल्पवृक्षाः तैः सुरद्रुमैः मनीषितार्थक्रियया मनीषिताश्वते अर्थाश्च तेषां क्रियया वाञ्छितार्थकरणेन हे भुवनेश द्वितीये (द्वेस्तीय । ७ । १ । १६५ । इ. सू. द्विशब्दात् तीय प्रत्ययः) भवे (युवर्ण वृध्वशरण गमृद् ग्रहः । ५ । ३ । २८ । इ. सू. भावे अल् । नामिनो गुणोऽक्ङिति । ४ । ३ । १ । इ. सू. गुणः । ओदौतोडचात् । १ । २ । २४ । इ. सू. अवादेशः ) कुरुषु उत्तरकुरुषु युग्मितां युगलित्व मवाप्ते प्राप्ते सति त्वयि विषये किं करायितं (क्यड् । ३ । ४ । २६ । इ. सू. आचारेऽर्थे किंकरशब्दात् क्यड् क्लोड़े क्तः । ५ । ३ । १२३ । इ. सू भावे नपुंसकेक: 1) किंकरवदाच