________________
1
७२) श्री जैन कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
:
सू. ण्यन्त तारे अक जेनिटि । ४ । ३ । ८३ । इ. सू. णेर्लोपः । ) तारयसि जीवान् संसार सागरात् इति तारक' । हे नाथ त्वं क्षमादपि पर्वतोऽपि सकू तां सशिखरतां न वहसि य. क्षमात् पर्वतोऽस्ति स सशिखरतां वहति अन विरोधपरिहारमाह क्षमा ( किपू । ५ । १ । १४८ । इ. सु. कर्तरि किप् । ह्रस्वस्य त पित्कृति । ४ । ४ । ११३ । इ. सू तोन्तः । ) गुणं बिमर्तीति क्षमाभृत क्षमा गुणधारकोऽसि सकूटतां सालीकनां सकपटत्वं न वहसि न धारयसि अपारिजातोऽपि सुरद्रुमायसे य अपारिजातः स्यात् स सुरद्रुमवत् कथमाचरति । अत्र विरोधपरिहारमाह अपगतं अरीणां रिपूणां जातं समूहो यस्य सः अपारिजातः ।
इदं हि पट्खंडमवाप्य भाग्तं, भवन्तमूर्जस्वल मेकदैवतम् ।
बिभर्ति षट्कोणकयन्त्रसूत्रणां नृणां स्फुरत्पातकभूतनिग्रहे ॥ ५४ ॥
"
(व्या० ) उदमिति ॥ हे नाथ इदं षट्खंडा यस्मिन् तत् षट्खंडं तत् भारत भरतक्षेत्रं कर्तृपदं । उर्जस्वलं ( उर्जो विन् वलावश्चान्तः । ७ । २ । ५१ । इ. सू उर्ज शब्दात् वल प्रत्ययः उर्ज शब्दस्य उर्जस् ) उर्जा बलमस्यास्तीति तं કન बलवन्तं एव दैवतं भवन्तमवाप्य प्राप्य नृणां मनुष्याणां स्फुरत्पातकभूतनिग्रहे स्फुरन्ति च तानि पातकानि च ( णक तृचौ । ५ । १ । ४८ । इ सु. ण्यन्त पात् धातोर्णक प्रत्यय ) पापानि तान्येव भूतास्तेषां निग्रहो निर्धाटनं तस्मिन् पट् कोणकानि यस्मिन् सचासौ यंत्रश्च तस्य सूत्रणां रचनां विभर्ति धारयति ॥ कोऽर्थः भरतक्षेत्रेण परमदैवतं भगवन्तमवाप्य प्राप्य मनुष्याणां लोकानां पापरूपभूतनिग्रहे पटूखंड रूप पट्कोणकयंत्र सूत्रणा समाश्रितेति भावः ॥ ५४ ॥
तपोधनेभ्यश्चरता वनाध्वना, धनस्य भावे भवता धनीयता । अदीयताज्यं यदनेन कौतुकं, तथैव शिवाय वृपो वृषध्वज ।। ५५ ।।
( व्या० ) तपोवनेभ्य इति ॥ हे नाथ भवता त्वया वनस्याध्या वनाव्वा तेन चनाध्वना चनमार्गेण चरता गच्छता धनस्य भावे धनसार्थवाह भवे तपोधने म्य.